हिन्दुपञ्चाङ्गानुसारं भाद्रपदमासस्य चतुर्थीतिथिः २०२४ तमस्य वर्षस्य सितम्बरमासस्य ०६ दिनाङ्कात् सायं ०३:०१ वादनात् आरभ्य ०७ सितम्बर् दिनाङ्के सायं ०५:३७ वादने समाप्तं भविष्यति। एतादृशे परिस्थितौ उदयतिथि-अनुसारं गणेशचतुर्थी-पर्वः ०७ सितम्बर-दिनाङ्के शनिवासरे आचर्यते । अस्मिन् दिने भवन्तः अस्मिन् शुभे काले गणेशस्य पूजां कर्तुं शक्नुवन्ति ।
भारतस्य बहुषु उत्सवेषु सम्पूर्णभारते लोकप्रियः उत्सवः गणेशोत्सवः अस्ति। अस्य आरम्भः भाद्रपदमासस्य चतुर्थतियां भवति। उत्सवस्य अन्तः अनन्तचतुर्दशीदिने भवति। एतस्य उत्सवस्य द्वे स्वरूपे। एकं यत् जनाः तेषां परिवारेण सह गृहे गणेशमूर्ति प्रतिष्ठापयन्ति। अन्यम् उत्सवस्य सार्वजनिक रूपम्। द्वयोः अपि स्वरूपयोः जनाः सुन्दरगणेशमूर्तीः आनयन्ति। भारते बहवः जनाः गृहेषु गणेशमूर्तीः आनयन्ति। केषुचन गृहेषु भगवान् गणेशः अध्यर्धदिनेभ्यः तिष्ठति। अन्येषु सः पञ्चभ्यः अथवा सप्तभ्यः दिनेभ्यः वसति। बहुषु गृहेषु सः दशदिनेभ्यः अपि निवसति। सर्वे जनाः आनन्देन देवस्य गणेशस्य स्वागतं कुर्वन्ति
भारते सार्वजनिकगणेशोत्सवस्य प्रारम्भः टिळकमहोदयस्य प्रयत्नैः अभवत्। अधुनापि नैकासु सदनिकासु सार्वजनिकगणेशोत्सवः प्रचलति। अत्र सर्वे जनाः मिलित्वा गणेशं नमन्ति । बहूनां कार्यक्रमाणाम् आयोजनम् अपि भवति। बालकाः कलास्पर्धासु भागं गृह्णन्ति। ते नृत्यन्ति गायन्ति च। कदाचित् प्रौढाः अपि भागं गृहीत्वा आनन्दन्ति। यदा गणेशमूर्तेः विसर्जनस्य समयः आगच्छति, तदा गणेशमूर्तेः शोभायात्रा प्रतिष्ठते। गणेशोत्सवः प्रत्येकस्य भारतीयस्य प्रियः अस्ति। श्रीगणेशः सर्वेभ्यः आनन्दस्य सुखस्य प्रतीकम् अस्ति। श्रीगणेशः तस्य उत्सवश्च मम प्रियौ स्तः।











