नित्यानन्दः अमृतपुरस्थस्य राघवेन्द्रनामकस्य धनिकस्य गृहे उद्योगी आसीत् । नित्यानन्दः तद्गृहस्य गृहकार्याणि अन्यानि कार्याणि च करोति स्म ।
कदाचित् नित्यानन्दः गृहस्य सम्मार्जनं कुर्वन् आसीत् । तस्मिन् समये कस्मिंश्चित् प्रकोष्ठे एकं रजतनाणकं प्राप्तं तेन । नित्यानन्दः नाणकं गृहस्वामिने राघवेन्द्राय दत्तवान् । नित्यानन्दस्य प्रामाणिकतां दृष्ट्रा सन्तुष्टः राघवेन्द्रः तत् रजतनाणकं नित्यानन्दाय एव दत्तवान् ।
कानिचन दिनानि अतीतानि । राघवेन्द्रस्य पुत्री शैलजा पितरम् उक्तवती “मदीयः वज्रकण्ठहारः न दृश्यते” इति । गृहे सर्वत्र अन्विष्टम् । तथापि हारः न प्राप्तः । अनन्तरं राघवेन्द्रः नित्यानन्दम् इतरान् कर्मकरान् च आहूय – “मम पुत्र्याः वज्रकण्ठहारः न दृश्यते । भवद्भिः दृष्टः वा ?” इति । “दिनद्वयात्पूर्व स्नानगृहे सः हारः मया प्राप्तः” इति उक्तवान् नित्यानन्दः ।
एतत् श्रुत्वा राघवेन्द्रः कोपेन “दिनद्वयात्पूर्वम् एव प्राप्तं चेदपि एतं विषयं भवान् मां किमर्थं न सूचितवान् ?’ इति पृष्टवान् । तदा नित्यानन्दः उक्तवान् – “स्वामिन् । मया प्राप्तः कण्ठहारः भवते दीयते चेदपि मम प्रामाणिकतया सन्तुष्टः भवान् तं हारं महाम् एव अदास्यत् । कार्यव्यग्राय भवते कष्टं दातुम् अनिच्छन् । अहं कण्ठहारं मत्समीपे एव स्थापितवान्” इति । एतत् श्रुत्वा आश्चर्यचकितः राघवेन्द्रः किङ्कर्तव्यतामूढः सन् नित्यानन्दम् एव पश्यन् स्थितवान् ।











