प्रसिद्धधार्मिकस्थले अभवत् एकदिवसीयसंस्कृतचिन्तनशिबिरम्

उत्तराखण्डसंस्कृतविश्वविद्यालयहरिद्वारद्वारा बद्रीनाथधाम्नि श्रीकाशीमठे आयोजितं शिबिरं।
धार्मिकस्थलेषु संस्कृतेन घोषणा भवेदिति विद्वद्भि: समर्थितं

वार्ताहर:-कुलदीपमैन्दोला। चमोली।

उत्तराखण्डसंस्कृतविश्वविद्यालयहरिद्वारद्वारा शुक्रवासरे बद्रीनाथधाम्नि श्रीकाशीमठे चमोलीजनपदे
एकदिवसीयसंस्कृतचिन्तनशिबिरम्‘ आयोजितं। यस्य उद्देश्यं उत्तराखण्डराज्ये संस्कृतभाषायाः विकासाय प्रसाराय च दूरगामीकार्ययोजना भविता , उक्तकार्यक्रमे देशस्य सर्वेभ्यः राज्येभ्यः संस्कृतविद्वांसः भागं गृहीतवन्तः। संस्कृतभारत्याः अखिलभारतीय-उपाध्यक्षः दिनेशकमतः मुख्यातिथिः आसीत् तथा च बद्रीनाथधाम्न: पूर्वधर्मनेता भुवनचन्द्र: उनियालमहोदयः अध्यक्षतां कृतवान् । डॉ. संजीवकुमारराय: विशेषवक्तृरूपेण उपस्थित: आसीत् । आदरणीय: जयप्रकाशगौतम:, संस्कृतभारत्या: अखिलभारतीयसंगठनमंत्री सारस्वत-अतिथिरूपेण उपस्थित: आसीत्।
द्वितीयराजभाषा तीर्थस्थलेषु दृष्टा भवेत्-जयप्रकाशगौतमः
वेदपाठेन आरब्धे कार्यक्रमे जयप्रकाशगौतमः अवदत् यत् अद्य उत्तराखण्डे संस्कृतभाषायाः विकासाय अधिकं कार्यं कर्तुं आवश्यकता वर्तते। गौतमः अवदत् यत् उत्तराखण्डस्य द्वितीया राजभाषा संस्कृतम् अस्ति, अतः राज्यस्य तीर्थस्थलेषु अपि एषा दृष्टा भवेत्। सः अवदत् यत् संस्कृतविश्वविद्यालयेन अस्य चिन्तनशिबिरस्य माध्यमेन अस्मिन् दिशि एकं पदं कृतं, तत् प्रशंसनीयम्।
संस्कृतविश्वविद्यालय: देवभूमौ प्रसारयति संस्कृतं
कार्यक्रमस्य संयोजकः डॉ. प्रकाशचन्द्रपन्तः कार्यक्रमस्य संचालनं कुर्वन् उत्तराखण्डः देवभूमिः अस्ति, अतः संस्कृतविश्वविद्यालयः देवभूमौ देववाणीसंस्कृतभाषायाः प्रचारार्थं प्रयत्नं कुर्वन् अस्ति इति उक्तवान्। डॉ. पन्तः अवदत् यत् एषः एकदिवसीयः चिन्तनशिबिरकार्यक्रमः तस्य भागः अस्ति। आयोजकैः सह बद्रीनाथकेदारनाथमन्दिरसमितेः माननीयः अध्यक्षः उपाध्यक्षः च देशात् आगतानां सर्वेषां ६० संस्कृतविदुषां कृते मन्दिरदर्शनादिव्यवस्थां कृतवान् । आदरणीय: उपराष्ट्रपति: श्री किशोरपंवार: सर्वविदुष: उत्तरवस्त्रेण सम्मानिता: । कार्यक्रमस्य अध्यक्षः पूर्वधर्माधिकारी श्री भुवनचन्द्र: उनियाल: उक्तवान् यत् अद्य संस्कृतभाषिणां जनानां संख्या वर्धिता, अतः अद्य सर्वेषु संस्कृतविद्यालयेषु महाविद्यालयेषु च संस्कृतभाषिशिबिराणां आयोजनं करणीयम्, एषा एव समयस्य आवश्यकता अस्ति।
कार्यक्रमस्य मुख्यातिथिः दिनेशकमतमहोदयः अवदत् यत् संस्कृतभाषायाः प्रचारार्थं सर्वे संस्कृतविद्वांसः, संस्कृतसंस्थाः, धार्मिकसंस्थाः च अग्रे आगन्तुं प्रवृत्ताः भविष्यन्ति। कार्यक्रमे श्री श्रीशदेवपुजारी, श्री सत्यनारायणभट्ट:,
दत्तात्रेयव्रजहल्ली, गौरवशास्त्री समितिसदस्य: डॉ. अरविंदनारायणमिश्र:, डॉ. अरुणकुमारमिश्र:, डॉ. जोगेश्वरपाटाले आदिभि स्वविचारा: व्यक्तीकृता: ।
हरिकीपैडीपरमार्थनिकेतने भवेत् संस्कृतघोषणा
डॉ. संजीवकुमाररायः स्वसम्बोधने उक्तवान् यत् संस्कृतभाषायाः प्रचारार्थं “हरिकीपैडी” “परमार्थनिकेतनम् च इत्यादिषु प्रत्येकस्मिन् स्थाने संस्कृतभाषायां घोषणाः करणीयाः। अस्मिन् दिशि सर्वकाराणां कार्यं कर्तुं आवश्यकता वर्तते। सचिनकठाले आगामि ३-४ वर्षाणि यावत् राज्ये संस्कृतस्य प्रचार-विकासाय स्वपरामर्शं दत्त्वा राज्यस्य अन्येषु धार्मिकस्थानेषु तथा बद्रीनाथकेदारनाथादिषु अपि, विश्वस्तरीयधर्मस्थलेषु च संस्कृतभाषायां घोषणाः करणीयाः इति उक्तवान् । परन्तु संस्कृते धार्मिकस्थानानां विषये सूचनार्थं बैनरपोस्टर इत्यादयः अपि स्थापयितव्याः। समन्वयकेन संस्कृतभाषायाः विकासाय, प्रसाराय च सर्वेभ्यः विद्वद्भ्य: परामर्श: याचितः अस्ति । स्थानीयसंयोजकः द्रवेश्वरप्रसाद: थपलियालः कार्यक्रमाय देशान्तरात् आगतानां सर्वेषां जनानां धन्यवादं कृतवान्।
चिंतनशिबिरे स्थानीयजनत्वेन बद्रीनाथवेदवेदाङ्गसंस्कृतमहाविद्यालयस्य विद्वांस:, डॉ. प्रदीपसेमवालः, जगदीशचन्द्रजोशी, डॉ. पवनकुमारशर्मा, डॉ. चर्चा बलियान्, डॉ. रितेशवशिष्ठः, राजस्थानतः चन्दशेखरशर्मा, डॉ. प्रियदर्शिनी ओली , डा.विवेकशुक्ला, बद्रीनाथधाम्न: प्रकाशझा, कविता, अमितमन्दोला सहितेन देशस्य ६० संस्कृतविद्वांसः लिखितरूपेण स्वपरामर्शं दत्तवन्तः।