प्रधानमन्त्रिणा नरेन्द्रमोदिना गत सप्ताहे रुसदेशीयेन राष्ट्रपतिना व्लादिमिर्-पुतिन् इत्यनेन सह रूस- युक्रेनयोर्मध्ये प्रवर्तमानं सङ्घर्षम् अधिकृत्य सम्वादः कृतः। दूरभाषमाध्यमेन जाते अस्मिन् सम्वादे, भारत-रूस-देशयोः मध्ये सामरिक सहभागित्वम् इतोऽपि सुदृढं कर्तुं उपायाः चर्चिताः । सामाजिक- संदेशपाले, प्रधानमन्त्री अलिखत् यत् असौ श्री-पुतिनेन सह विद्वपक्षीय-सम्बन्धान् सुदृढीकर्तुं स्वस्य अनुभवम् अपि च सद्यः एव जातस्य युक्रेन्-देशस्य यात्रावृतम् चर्चितवान् । प्रधानमन्त्रिणा रूस-युकेनयोः मध्ये प्रवर्तमान-द्वन्द्वस्य शान्ति-युत-समाधानाय भारतस्य प्रतिबद्धता पुनरुच्चारिता ।
पूर्वं युक्रेन्-देशस्य कीव्-नगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना युक्रेन्-देशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह प्रतिनिधिस्तरीयसम्मेलनं कृतम्। उभयो : नेत्रयोः उपस्थितौ चतुर्ष सहभागिता ज्ञापन पत्रेषु हस्ताक्षराणि आदानप्रदानानि च जतानी। युक्रेन् देशे सामुदायिकविकासपरियोजना- मादकद्रव्य- नियन्त्रणमानक, सांस्कृतिक- इत्यादिशु विविधक्षेत्रेषु द्वैपाक्षिकसंबन्धान् सुदृढं कर्तुं ज्ञापन पत्रेषु हस्ताक्षराणि कृतानि । अत्रावसरे प्रधानमन्त्री श्रीमोदी कीव इत्यत्र यूक्रेनस्य राष्ट्रिय-इतिहास-संग्रहालये बालेभ्यः निर्मितां मल्टिमीडिया-माटिरोलॉजिस्ट प्रदर्शनीम् अवलोकितवान्। तेन सह यूक्रेनस्य राष्ट्रपतिः वलोडिमिर-जेलेंस्की इत्येषः आसीत्। प्रधानमन्त्री नरेन्द्रमोदी सबलं प्रतिपादितवान् यत् युक्रेन-रूसयोः राष्ट्रद्वयोः मध्ये जायमानस्य संघर्षस्य समाधानार्थ उपायाः अन्वेस्टीतव्याः । सः आश्वासनं प्रदत्तवान् यत् भारतं शान्ति स्थापयितुं आवश्यकेषु सर्वेषु प्रयासेषु सक्रियभूमिकां निभालयितुं सज्जम् अस्ति। युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह मिलित्वा श्रीमोदी अवदत् यत् भारतेन शान्तिप्रयासानां सक्रियरूपेण योजना कृता अस्ति तथा च अस्माकं दृष्टिकोणम् जनकेन्द्रितम् अभवत्। सः अवदत् यत् भारतं संप्रभुतायाः क्षेत्रीय-अखण्डतायाः च समर्थनं करोति । रूसदेशस्य सद्यः एव संपन्नायाः यात्रायाः विषये प्रवदन् प्रधानमन्त्री अवदत् यत् सः स्पष्टतया उक्तवान् यत् कस्याः अपि समस्यायाः समाधानं युद्धक्षेत्रे कदापि न लभ्यते किन्तु समाधानं केवलं वार्ता – संवाद, कूटनीतिमाध्यमेन एव भवति।











