केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे शोधप्रस्तावलेखन-कार्यशाला अनुष्ठिता

(वार्ताहर:- प्रवेशकुमारशुक्ल:, भोपाल)

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे शिक्षाचार्यच्छाणां कृते द्विदिवसीय शोधप्रस्तावलेखन-कार्यशालाया: आयोजनमभूत्। आदौ सुरभारतीसमुपासनेन इयं कार्यशाला प्रारम्भा । विषयविशेषज्ञत्वेन डा० हरिसिंहगौरविश्वविद्यालयत: शिक्षाशास्त्रविशारदा: प्रो० संजयशर्ममहाभागा: समागता:, ते शोधच्छात्राणां समस्याया: निवारणं कथं स्यात् एवञ्च तथ्याधारितसंस्कृतशोधप्रविधीनां सुष्ठु: प्रयोग: कथं करणीयमित्यादि विषये बोधिता: । समन्वयका: शिक्षाशास्त्रविशारदा: प्रो० सोमनाथसाहुमहोदया: आगतानामतिथीनां वाचिकस्वागतं कृतवन्त:।
अध्यक्षपदमलंकुर्वन्त: सुकवय: परिसरनिदेशका: प्रो० रमाकान्तपाण्डेयवर्या: निगदितं यत् ” यदिहास्ति तदन्यत्र यन्नेहास्ति न तद् क्वचिद् अर्थात् शास्त्रे सर्वं विद्यते अत: तथ्याधारितशोधकार्यं करणीयम्।
सभाया: सञ्चालनं डा० कृष्णकान्ततिवारिवर्या: कृतवन्त: । डा० कालिकाप्रसादशुक्लवर्या:,श्री अंकुरपाण्डेय, समस्तविभागीया: आचार्या: एवञ्च शोधछात्रा: समुपस्थिता: आसन्। शिक्षाशास्त्रविद्याशाखाया: वरिष्ठाचार्या: प्रो० अशोककुमारकछवाहमहाशया: सर्वेषां समुपस्थितानामाचार्याणां धन्यवादज्ञापनं कृतवन्त: । अन्तिमे शान्तिमन्त्रेण कार्यशालाया: समुद्घाटनसत्रं सुसम्पन्नं जातम्।