वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ
केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे शिक्षाशास्त्रविद्याशाखायां लोकभाषा- प्रचारसमितिः एवं केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरः इत्यनयो: सहयोगेन दशदिवसात्मकसंस्कृत- सम्भाषणशिविरस्य उद्घाटनसमारोहः आयोजितः। शिक्षाशास्त्रविद्याशाखाया: शाखाध्यक्षाया: आचार्यायाः प्रो० अवनीश अग्रवालमहोदयाया : आध्यक्षे सामारोहोऽयम् अनुष्ठितः। अस्मिन् समारोहे केन्द्रीयसंस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविद्याशाखायाः
अधिष्ठातार: आचार्या: प्रो० लोकमान्यमिश्रवर्याः उपस्थिता: आसन्। कार्यक्रमेऽस्मिन् शाखायाः आचार्या: प्रो० देवीप्रसाद द्विवेदीमहोदयाः, प्रो० गणेशशंकरविद्यार्थीमहोदयाः,डॉ.महेशकुमारपारीक-महोदया:, डॉ. ओमप्रकाशवर्मामहोदया:, डॉ संध्या त्रिपाठीमहोदयाश्च उपस्थिता: आसन्।
संस्कृतसम्भाषणशिविरस्य सञ्चालका: संयोजकाश्च विद्याशाखायाः सहायकाचार्या : डॉ० रुद्रनारायणनरसिंहमिश्रमहोदयाः शिविरस्य उद्देशयं लक्ष्यं च स्पष्टं कृतवन्तः। समारोहे अस्मिन् शिक्षाशास्त्रप्रथमसत्रार्द्धस्य सर्वे छात्राध्यापकाः छात्राध्यापिकाश्च प्रतिभागं कृतवन्तः।











