लेबनानदेशः घातकैः वाकी-टॉकी-पेजर-आक्रमणैः कम्पितः

विगत सप्तदश -अष्टादश दिनाङ्के लेबनाने – पेजर-विस्फोटेषु न्यूनातिन्यूनं एकादश जनाः मृताः चतुःसहस्राणि हिजबुल-युद्धकारिणः व्रणिताः।
इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू, रक्षामन्त्री योआव गैलन्टः च लेबनाने घातकपेजर विस्फोटे तल- अवीवनगरस्य हाकिर्या-सैन्यकेन्द्रे सुरक्षामूल्यांकनसभां कृतवन्तौ। अपरपक्षे हिजबुल-सङ्घः उक्तवान् यत्, एतेषां विस्फोटानां कारणानि चिन्तयितुं सुरक्षा-वैज्ञानिक अनुसन्धानं कुर्वन् अस्ति। अन्यस्मिन् वक्तव्ये समूहेन उक्तं यत् इजरायल् देशेन कृतः इति आरोपितं, प्रतिकारस्य प्रतिज्ञापि कृता । इजरायल्-देशः एतेषां घटनानाम् उत्तरदायित्वं न स्वीकृतवान् । लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत्, जाते पेजरविस्फोटे न्यूनातिन्यूनम् एकादश जनाः मृताः, हिजबुलसदस्यैः सह चतुः सहस्त्रैधिकाः जनाः व्रणिताः। इजरायलस्य लोकेशन डिटेक्शन तकनीक परिहरितुं हिजबुल-सङ्घः पेजर-सङ्घस्य उपयोगं करोति । हिज्बुल-सङ्घस्य मते एतेषां पेजर्-समूहानां अपि च रेडियो-सेट्-आक्रमणानां योजना इजरायल-एजेन्सीभिः क्रियते । उग्रवादीसमूहस्य नेता हसन नसरुल्लाहः गुरुवासरे दूरदर्शने भाषणं कृतवान्। सार्वजनिकरूपेण तस्य अनुपस्थितिः यस्मिन् सामान्यतया उच्चस्तरीयदलस्य अधिकारिणः समर्थकाः च सन्ति, तत् दर्शयति यत् हिजबुलः पृष्ठपदे अस्ति। इजरायल-देशेन सह लेबनान-देशस्य दक्षिणसीमायां युद्धं प्रचलति । इजरायल्-देशः आधिकारिकतया आक्रमणानां श्रेयः न गृहीतवान् ।