नवरात्रि महोत्सवस्य आगमनं ३ अक्टूबर २०२४ दिनाङ्के भविष्यति।
नमः सर्वेभ्यः। भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु नवरात्रोत्सवः अन्यतमः । नवानां रात्रीणां समूहः नवरात्रं कथ्यते ।नवरात्रं भगवत्याः पूजनाय भवति । जनैः नवरात्र-व्रतम् अपि क्रियते ।जनाः नवदिनानि पर्यन्तम् अन्नं विना भवन्ति ।भारतवर्षे विविधरूपेण अयं महोत्सवः अत्युत्साहेन आयोज्यते ।
चैत्र-आश्विनमासयोः च शुक्लपक्षे प्रतिपदायाः नवमीं पर्यन्तं नवरात्रम् इति महापर्वम् आयोज्यते ।
नवरात्रिः शक्ति-आराधनायाः पर्व भवति, यत्र नव-दिनानि पर्यन्तं देवी दुर्गायाः नव रूपाणि पूज्यन्ते। अस्मिन् समये भक्ताः उपवासं कुर्वन्ति, दुर्गा सप्तशती पाठं पठन्ति, तथा देवीमात्रायाः कृपां प्राप्तुं प्रार्थनां कुर्वन्ति।
नवरात्रे प्रतिदिनं भिन्न-भिन्न देवीमूर्तेः पूजा भवति। प्रथमदिनं शैलपुत्री देवी पूज्यते, द्वितीयदिनं ब्रह्मचारिणी, तथा क्रमशः चन्द्रघण्टा, कूष्माण्डा, स्कन्दमाता, कात्यायनी, कालरात्रि, महागौरी, सिद्धिदात्री च पूज्यन्ते।
उत्सवस्य महत्त्वं शक्तेः उपासना, आत्मशुद्धिः, धर्मनिष्ठा च इति सूच्यते। नवरात्र्याः समये श्रद्धालवः मन्दिरेषु गत्वा भक्तिपूर्वकं देवीमूर्तीनां पूजनं कुर्वन्ति, दीपाराधनं, तथा भक्तिगीतानां गायनं च कुर्वन्ति। गृहेषु अपि विशेषः शृङ्गारः क्रियते, तथा देवीस्मरणे विशेषाः कर्माणि प्रचलन्ति। उपवासेन सह तनुशुद्धिः, प्रार्थनया च चित्तशुद्धिः सम्पाद्यते।
अतः नवरात्रि महोत्सवः सर्वजनानां जीवनं धर्ममयमं, भक्तिमयमं च कर्तुम् अति महत्त्वपूर्णः अस्ति। र्गादेव्याः कृपया सर्वे जनाः सुखं, शान्तिं च प्राप्नुयुः इति प्रार्थना।











