संस्कृतसम्भाषणयोग्यतायाः कृते प्रथमं मुखं प्रमाणम्, न केवलं प्रमाणपत्रम् – प्रो०लक्ष्मीनिवासपाण्डेयः, कुलपतिः, केएसडीएसयू

वार्ताहर:- आचार्यः छविरमणोऽयम्:, दरभङ्गा

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेनाऽऽयोजिते द्वितीयदशदिवसीय-संस्कृतसम्भाषणशिविरस्य समापनसत्रमद्य सोमवासरे 30.09.2024 दिनाङ्के आचरितम्। समापनसत्रे मुख्यातिथिरूपेण कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्य यशस्विनः कुलपतयः प्रो०लक्ष्मीनिवासपाण्डेयमहोदयाः, विशिष्टातिथिरूपेण चास्यैव विश्वविद्यालयस्य छात्रकल्याणसङ्कायाध्यक्षः डॉ०शिवलोचनझामहोदयाः उपस्थिताः आसन्। महाविद्यालये समभ्यागतैः अतिथिवर्यैः महाविद्यालयपरिसरे पितृपक्षमुद्दिश्य वृक्षारोपणं च विहितम् । महाविद्यालयस्य सङ्गोष्ठीकक्षे आयोजितस्य समापनसत्रस्यारम्भः वैदिक-लौकिकमङ्गलाचरेण, दीपप्रज्वालनेन, सरस्वतीचित्रफलके माल्यार्पणेन च जातः। ततः परमागतातिथीनां स्वागतं प्रभारिप्रधानाचार्येण डा०रामसंयोगरायवर्येण मिथिलाञ्चलपरम्परानुसारं माल्यार्पणेन, उष्णीषोत्तरीयपरिधानेन च कृतम्। अथ चैतेनैव स्वागतभाषणमपि विहितम्। विषयप्रवर्तनं डा०छबिलालन्यौपानेमहोदयेन कृतम्। उक्तसंस्कृतसम्भाषणशिविरस्यानुभवकथनं महाविद्यालयस्य छात्रैः सुन्दरम्, कबीरदासः, अंजू, सुरेशसहनी प्रभृतिभिश्छात्रैः कृतम्। मुख्यातिथिभाषणे माननीयकुलपतिमहोदयेन प्रोक्तं यत् “संस्कृतसम्भाषणयोग्यतायाः कृते प्रमाणपत्रस्य आवश्यकता न भवति, अपितु मुखमेव प्रमाणं भवति” इति। विशिष्टातिथिना डा०शिवलोचनझामहोदयेनोक्तं यत् “संस्कृतं जनभाषा भवेत्, एतदर्थं संस्कृतसम्भाषणस्य अभ्यासः परमावश्यकः।” अन्ते धन्यवादज्ञापनं डा०विभूतिनाथझामहोदयेन, समापनसत्रस्य मञ्चसञ्चालनं शिविरसंयोजकेन वीरसनातनपूर्णेन्दुरायमहोदेयन च कृतम्। कार्यक्रमस्य समापनं राष्ट्रगानेन सह जातम्। अवसरेऽस्मिन् महाविद्यालयस्य शिक्षकाः डा०सरस्वती कुमारी, डा०सरिताकुमारी, डा०नियतिकुमारी, डा०रंजीतकुमारठाकुरः, डा०नितेशकुमारमिश्रः, कार्यालयसहायकः श्रीमुकुन्दकुमारः, छात्राश्चोपस्थिताः आसन्।