प्रेषक:- प्रवेशकुमारशुक्ल:, लखनऊ
केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे शिक्षाशास्त्रविद्याशाखायां लोकभाषा- प्रचारसमितिः एवं केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरः इत्यनयो: सहयोगेन दशदिवसात्मकसंस्कृत- सम्भाषणशिविरस्य समापनसमारोहः आयोजितः। शिक्षाशास्त्रविद्याशाखाया: वरिष्ठाचार्याणां प्रो. देवीप्रसादद्विवेदीमहोदयानाम्आध्यक्षे सामारोहोऽयम् अनुष्ठितः। अस्मिन् समारोहे केन्द्रीयसंस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविद्याशाखायाः अधिष्ठातार: आचार्या: प्रो० लोकमान्यमिश्रवर्याः उपस्थिता: आसन्। कार्यक्रमस्यास्य मुख्यातिथय: आचार्या: भारतभूषणत्रिपाठीवर्या: संस्कृतभाषाया: सर्वा: भाषा: उद्धृता: सन्ति। अतः ज्ञानस्य निधिरेव ही संस्कृतभाषा। कार्यक्रमेऽस्मिन् शाखायाः आचार्या: प्रो. गणेशशंकरविद्यार्थीमहोदयाः, डॉ. महेशकुमारपारीकमहोदया:, डॉ. ओमप्रकाशवर्मामहोदया:, डॉ संध्या त्रिपाठीमहोदयाश्च उपस्थिता: आसन्।
संस्कृतसम्भाषणशिविरस्य सञ्चालका: संयोजकाश्च विद्याशाखायाः सहायकाचार्या : डॉ० रुद्रनारायणनरसिंहमिश्रमहोदयाः शिविरस्य प्रतिवेदनं प्रस्तुतं कृतवन्तः। समारोहे अस्मिन् शिक्षाशास्त्रप्रथमसत्रार्द्धस्य सर्वे छात्राध्यापकाः छात्राध्यापिकाश्च प्रतिभागं कृतवन्तः। अन्ते पञ्चलघुनाटकानामपि मञ्चनमभवत्।











