कश्चन ग्रामः। ग्रामे एकः कृपणः वसति स्म। तस्य समीपे बहूनि सुवर्णनाणकानि आसन्। कृपणः सर्वदा भीत्या चिन्तयति स्म , मम सुवर्णकानां रक्षणं करणीयम्। सः कृपणः तस्य सुवर्णनाणकानि स्वीकृत्य उद्याने एकस्मिन् बिले गूढवान्। प्रतिदिनं निद्रायाः पूर्वम् उद्यानं गत्वा सुवर्णनाणकानि रक्षितानि सन्ति वा इति पश्यति स्म।
अनन्तरम् एव निद्राति। सः यदाकदापि एकं सुवर्णनाणकम् अपि न व्ययति स्म। एकदा एकः चोरः कृपणस्य व्यवहारम् अवलोकितवान्। रात्रौ , कृपणस्य निद्रासमये सुवर्णनाणकानि चोरितवान्।
अग्रिमदिने यदा कृपणः तस्य सुवर्णनाणकानि चोरितानि इति ज्ञातवान् , सः उच्चैः रुदितवान्। कृपणस्य प्रतिवेशी , रोदनं श्रुत्वा पृष्टवान्, “भोः ! किम् अभवत् ? किमर्थं रोदिति ? “
कृपणः रुदन् उक्तवान् “मम सुवर्णनाणकानि हृतानि “।
प्रतिवेशी पृष्टवान् “भवान् किमर्थं सुवर्णनाणकानि गृहे एव न स्थपितवान् ? व्ययार्थम् अपि सौकर्यं भवेत् खलु ? “
कृपणः उक्तवान् ” नैव ! अहं यदाकदापि सुवर्णनाणकानां व्ययं न कृतवान् , न करिष्यामि अपि ! “
तदा प्रतिवेशी एकं शिलाखण्डं स्वीकृत्य कृपणाय दत्त्वान्।
उक्तवान् च “तर्हि एतं शिलाखण्डम् एव रक्षतु। उक्तवान् च “व्ययं न करोति चेत् , सुवर्णनाणकं वा , शिलाखण्डं वा , द्वयम् अपि समानम् एव।
यः न ददाति न भुङ्क्ते च तस्य तृतीया गतिभर्वति।











