भारतस्य पञ्च सेमिकण्डक्टर् इत्येतानि-संयंत्राणी शीघ्रमेव देशस्य विभिन्नेषु भागेषु स्थाप्यन्ते, तथा च ‘मेड् इन् इण्डिया’ चिप्स् इति इमानि विश्वस्य कृते सुलभानि भविष्यन्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। नवदिल्ल्याम कौटिल्य- आर्थिक-सम्मेलनम् अभिसंबोधयन् प्रधानमन्त्री अवदत् यत्, भारतं चल-दूरवाण्याः आयातकार्यात् उत्पादकत्वं प्रति अगच्छत् इति। भारते प्रत्येकस्मिन् क्षेत्रे निवेशस्य पर्याप्ताः अवसराः सन्ति इति सः अवधानं दत्तवान् ।











