संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदि – स्थायिपदः

संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदि (यु० एन० एस० सी०) इत्यस्मिन् स्थायिपदस्य कृते भारतस्य पक्षे समर्थनं दत्वा ब्रिटेनस्य प्रधानमन्त्री कीर स्टारमरः अपि अमेरिका-फ्रांस्- देशयोः नेतृभिः सह सम्मिलितः अस्ति। न्यूयॉर्कनगरे (यु० एन० जी० ऎ० ) इति संयुक्तराष्ट्रसङ्घस्य महासभायाः ऊनासीति तमे अधिवेशने सम्बोधयन् स्टारमरमहोदयः वैश्विकबहुपक्षीयव्यवस्थां अधिकं प्रतिनिधिं प्रतिक्रियाशीलं च कर्तु सुधारस्य आह्वानं कृतवान्। सः आफ्रिका-ब्राजील्-जापान-जर्मनी-देशानां सुरक्षापरिषदि स्थायि-पदानि समेत्य निर्वाचितसदस्यानां कृते अधिकानां आसनानां च समर्थनम् अपि अकरोत् । पूर्वे फ्रांसदेशीयः राष्ट्रपतिः इमैनुएल मैक्रों इत्येषः संशोधितायां संयुक्तराष्ट्र-सुरक्षा-परिषदि स्थायिसदस्यत्वेन भारतं प्रविष्टुं समर्थनं स्वीयं प्रकटितवान्। श्रीमैक्रों इत्येषः न्यूयॉर्कनगरे संयुक्तराष्ट्र महासभायाः नवसप्ततितमे चर्चासत्रे वार्ता इमां कथितवान्। फ्रांसदेशीयेन अनेन राष्ट्रपतिना सबलं प्रत्यपादयत् यत् भारत- जर्मनी-जापान-ब्राजील-देशाः स्थायिदेशाः भवेयुरिति ।