भारतीयवायुसेनायाः द्विनवतितमस्य स्थापनादिवसः

भारतीयवायुसेनायाः द्विनवतितमवर्षस्य उत्सवस्य आरम्भः अस्य मासस्य षष्ठं दिनाङ्के सोमवासरे चेन्नईनगरे जातः। उत्सवस्य आरम्भे द्विसप्ततिः युद्धविमानानां वायुविमानानां च अद्भुतप्रदर्शनम् अभवत् । एकविंशतिः वर्षाणाम् अनन्तरं आयोजितं कार्यक्रमं द्रष्टुं मरीना समुद्रतटे लक्षशः प्रेक्षकाः एकत्रिताः आसन् । स्थापनादिवसस्य समुपलक्ष्ये सोमवासरात् आरभ्य बुधवासरं नवं दिनाङ्क यावत् चेन्नैनगरे उड्डयनप्रदर्शनं समायोजयिष्यति। भारतीयवायुसेनायाः चेतकः, राफेल, डकोटा, हार्वर्ड, एमआईजी, जगुआर चेत्यादीनि विमानानि उत्कृष्ट-प्रदर्शनानि विहितवन्तः। द्विसप्ततिः विमानैः सह एरोबेटिक्स- इत्यस्मिन् प्रदर्शने अस्मिन् लिम्का इति-अपि लेखपुस्तके कीर्तिमतं निर्मातुं लक्ष्यं कृत्वा पञ्चदश लक्षं यावत् प्रेक्षकाः आगन्तुं शक्यन्ते।
वार्ताहरैः सह भाषमाणः वायुसेनाप्रमुखः एयरमार्शल-अमरप्रीतसिंहः सूचितवान् यत् वायु-सैन्यबलं स्वीयानि उपकरणानि आपूर्ति-श्रृङ्खलाः च समुचितविधिना स्थापयितुं भविष्यकालिक सुरक्षा-समाह्वनानि अपाकर्तु च स्वदैशिक उत्पादेषु केन्द्रितं वर्तते । तेन अग्रे योजितं यत् वायुसेनायाः लक्ष्यमस्ति यत् सप्तचत्वारिंशदधिक‌द्विसहस्रतम-वर्ष यावत् भारते एव सर्वविध-रक्षोत्पादन-करणमिति। वायुसेना प्रमुखेण एतदपि सबलं प्रतिपादितम् यत् गतेषु कतिपयवर्षेषु प्रशिक्षणकार्याणि-समेधितानि । तेनोक्तं यत् वर्षेऽस्मिन् वायुशक्तिः गगनशक्तिः तरङ्गशक्तिश्च अभ्यासत्रयमपि विहितमस्तीति ।