इजरायलसैन्येन शनिवासरे सम्पूर्णे लेबनानदेशे आक्रमणानि आरब्धानि, इजरायलस्य हिजबुल-सङ्घस्य तस्य मित्रराष्ट्रानां च विरुद्धं युद्धस्य विस्तारेण देशे हमास-अधिकारिणः द्वौ मारितौ इति च अवदत्।
लेबनानदेशे इजरायलस्य आक्रमणे द्विसहस्राधिकाः जनाः मृताः : मन्त्रालयः
०६ अक्टूबर – इस्राइल-लेबनान
इस्राइल-देशेन लेबनाने आक्रमणे तीव्रता विधाय बेरुत-नगरस्य दक्षिण-क्षेत्रे भीषणानि-वायु-आक्रमणानि कृतानि। येन नगरे भीषण-हानिः जाता। लेबनानस्य सुरक्षाधिकारिणः अनुसारं गतदिने उत्तर-नगरे त्रिपोल्यां आक्रमणं विहितम्। गतदिने विमानपत्तनस्य निकटवर्ती क्षेत्राणि समेत्य बेरुतस्य दक्षिण-क्षेत्रे इस्राइलेन न्यूनातिन्यूनं अष्ट आक्रमणानि विहितानि। इतःपूर्वं इस्राइल-सैन्य बलेन जनाः क्षेत्रं परित्यक्तुं आदिष्टाः। क्षेत्रे भषण-संघर्ष कारणेन फिलिस्तीन- शरणार्थिनः समेत्य सहस्रशो जनाः लेबनानं परित्यक्तुं विवशाः सन्ति।
०५ अक्तूबर -अमरीका – ब्रिटेन
अमरीका – ब्रिटेनयोः सैन्यबलानि यमने विद्रोहिणां समुदायस्य- हौति इत्यस्य नियंत्रणे द्वादशाधिकस्थलेषु आक्रमणम अकुर्वन । अमरीकीय – आधिकारिणां अनुसारेण ईरानेन समर्थितस्य अस्य विद्रोहिणः समूहस्य प्रमुखानि – शस्त्रास्त्र-प्रणाली, सैन्यनिलय : अन्यानि च प्रकरणानि निधाय आक्रमणं विहितम् । इदं सैन्य- क्रियान्वयनं अस्मिन् क्षेत्रे ईरानदेशे एधमानेन प्रभावेण अमरीका- ब्रिटेनयोः संजातायाः चिंतायाः अनन्तरम अभवत् ।
१ अक्तूबर – इरान् इत्यनेन मंगलवासरे रात्रौ इजरायल्-देशे उच्चगति-क्षेपणास्त्र-प्रहारः कृतः, यत् तेहरान-देशस्य क्षेत्रीयशत्रु-विरुद्धं अद्यपर्यन्तं बृहत्तमं आक्रमणम् अभवत् । इरान् इत्यनेन सैन्यकेन्द्रेषु लक्ष्यं कृत्वा ये आक्रमणाः कृताः इति उक्ताः, ते इजरायलस्य विमानरक्षाभिः बहुधा विफलाः अभवन्, येषां समर्थनं अमेरिका-यूके-सहितानाम् वैश्विकसहयोगिनां कृते अभवत्।
३० सितम्बर – इजराइलाक्रमणम
इजराइलदेशेन हौथीलक्षितेषु स्थानेषु वायवीयाक्रमणानाम् एका श्रृड्ङ्खला समारब्धा। इजराइलदेशीयेन सैन्यबलेन स्पष्टीकृतम् यत् ते विगते दिनद्वये इजराइलदेश विरुध्य ईरान-सम्बद्ध- हौथी-आतडकवादिभिः साम्प्रतिके एव समये जातस्य प्रक्षेपास्त्राक्रमणस्य प्रत्युत्तराय आसन्।
२७ सितम्बर – इजरायल-रक्षासेनाभिः कालमेव बेरूत-नगरे आक्रमणे हिजबुल-सङ्घस्य शीर्ष-नेता हसन-नस्रल्लाहः मारितः। एकस्मिन् वक्तव्ये लेबनानदेशस्य सशस्त्रसमूहेन स्वस्य नेतारस्य हसननसरल्लाहस्य मृत्योः अपि पुष्टिः कृता।
ततः पूर्वं इजरायलस्य सैन्यप्रवक्ता लेफ्टिनेंट् कर्णेलः नादवशोशानी इत्यनेन सामाजिकमाध्यमेषु हसननसरुल्लाहस्य मृत्युः इति घोषितम्। नस्रुल्लाहः इरान्-समर्थितस्य हिज्बुल-समूहस्य नेतृत्वं ३२ वर्षाणाम् अधिकं यावत् कृतवान् ।
२६ सितम्बर -लेबनान – इजराइलदेशेन हिजबुल्लाहसमूहं विरुध्य स्वसैन्याभियानं सजवीकृतम्। लेबनानदेशस्य स्वास्थ्यमन्त्रालयस्य प्रतिवेदनानुसारं एतावता इज़राइल-आक्रमणे सप्तशतं जनाः मृत्युमुपगताः। साम्प्रतं इज़राइलदेशस्य सेना हिजबुल्लाहसमूहस्य सैन्यक्षतानामुपरि वरिष्ठ-सैन्यप्रमुखाणामुपरि च ध्यानं केन्द्रयति। नागरिकाणां बृहत्संख्यायां मृत्युना अन्ताराष्ट्रिय-चिन्ता संवर्धमानास्ति।
२६ सितम्बर – हिजबुल – शीर्षसेनापतिः मुहम्मद हुसैन सरूरः मृतः। लेबनानस्य राजधान्यां बेरूतनगरे इजरायलदेशस्य प्रहारेन हिजबुल्लाह सङ्घस्य शीर्षसेनापतिः मुहम्मद हुसैन सरूरः वायवीयाक्रमणे मृतः। इजरायल-रक्षासेना हिजबुल-सङ्घस्य विमानसेनापतेः मुहम्मद हुसैन-सरुरस्य उपरि बेरूत-नगरे-आक्रमणे मृत्योः पुष्टिं कृतवान्। स्थित्यानुसारं लेबनानस्य बेरूत- स्थितेन भारतीय दूतावासेन इजराइलदेशस्य हिज्बुल्लाह-गुल्मस्य च मध्ये विवर्धमानं संघर्ष निध्याय भारतीय-नागरिकाः परामृष्टाः सन्ति यत् ते यथाशीघ्र लेबनान-देशं त्यजेयुः। अथ च न केऽपि भारतीयाः मध्येयुद्धम् लेबनानस्य यात्रा नैव कुर्युः। येन तेषां प्राणसङ्कटं नैव भवेत्। ध्येयमस्ति यत् सद्यस्तनीने इजरायलदेशीये वायवीयाक्रमणे लेबनान-देशस्य अष्टपञ्चाशदुत्तर-पञ्च-शतमिताः जनाः पञ्चतां प्राप्ताः सन्ति। मृतकेषु पञ्चाशन्मिताः बालकाः अपि समाविशन्ति । अमेरिका-फ्रांसाभ्यां सहितैः तत्सहयोगिभिः दैशैः इजराइलस्य हिजबुल्लाहस्य च मध्ये युद्धस्य समेधनानन्तरं इजराइल-लेबनान सीम्नि एकविंशति दिनेभ्यः तत्कालमेव संघर्ष-विरामस्य आह्वानं कृतम एतद् विषये अमेरिकाः फ्रांस-यूरोपीयसंघ-जर्मनी- सऊदीअरब-कतर-संयुक्त अरब अमीरात-समेतैः अन्यैरपि सहभागिभिः देशैः वक्तव्यं प्रख्यापितम्।











