मिथुनः चतुर्दशकेषु ३५० तः अधिकेषु चलच्चित्रेषु कार्यं कृतवान् ।
सः क्लास्, मास्, क्रास् च चलच्चित्रेषु शासनं कृतवान् ।
सः प्रथमचलच्चित्रस्य सहितं त्रीणि राष्ट्रियपुरस्काराणि प्राप्तवान् । तस्य डिस्को डान्सर् इति चलच्चित्रं बालिवुड्-संस्थायाः प्रथमं १०० कोटिरूप्यकाणि अर्जितवान् चलच्चित्रम् आसीत् ।
मिथुन चक्रवर्ती इत्यपि पूर्ववर्षे पद्मभूषणं प्राप्तवान् अस्ति।
प्रतिष्ठिताभिनेता मिथुन चक्रवर्ती आगामि मासे सप्ततितमे राष्ट्रिय-चलच्चित्र- पुरस्कार-समारोहे दादा साहेब फाल्के पुरस्कारेण सम्मानितो भविष्यति। सूचना- प्रसारण-मन्त्री अश्विनी-वैष्णवः एकस्मिन् सामाजिक संदेशपटले इमां घोषणां कुर्वन् प्रोक्तवान् यत् कोलकातानगरात् आरभ्य चलच्चित्राणां उन्नतशिखरं यावत् मिथुन- दा इत्यस्य उल्लेखनीया चलच्चित्रयात्रा समाजं प्रेरयति। सः प्रोक्तवान् यत् दादा- साहेब फाल्के-चयन-समित्या भारतीय-चलच्चित्र-जगति तस्य लब्ध-प्रतिष्ठित- योगदानाया श्री-चक्रवर्ति-वर्याय भारतीय-चलच्चित्रस्य एषः शीर्षपुरस्कारः प्रदातुं निर्णयः स्वीकृतः अस्ति। प्रधानमन्त्री नरेन्द्र मोदी मिथुन चक्रवर्तिने दादा-साहेब- फाल्के-पुरस्कारेण सम्मानितं भवितुं वर्धापनं प्रायच्छत् ।











