विजयादशमीपर्व प्रभुश्रीरामस्य विजयेन दुष्टेषु भद्रतायाः, भ्रष्टाचरणे सत्याचरणस्य, अन्धतमसि प्रकाशस्य विजयं द्योतयति। एतद्वर्षे विजयपर्वणः शुभावसरे मयराष्ट्रस्थिते गुरुकुलप्रभाताश्रमे दीक्षान्तसमारोहस्य आयोजनमभवत्। विद्याक्षेत्रे विजयप्राप्तौ गुरुकुलस्य कुलाधिपतीनां चतुर्दशविद्याभूत-चतुर्दशरत्नरूपिणां विद्यार्थिनाम् अधिगमस्य सम्पूर्तौ दीक्षान्तरूपसौप्रस्थानिकसमारोहः सम्पन्नः। एतस्मिन् विशिष्टावसरे एन.सी.ई.आर.टी. इत्यत्र शिक्षासम्बद्धासु विविधयोजनासु कार्यं कृतवान् प्रो.विजयपालवर्यः मुख्यातिथित्वेन
उपस्थितः। उत्तरप्रदेशसंस्कृतसंस्थानस्य अध्यक्षचरः, गुरुकुलप्रभाताश्रमस्य महामन्त्री मेरठमहाविद्यालयस्य च प्रो.वाचस्पतिमिश्रवर्यो विशिष्टातिथित्वेन उपातिष्ठत्। उभावपि महनीयौ महानुभावौ चतुर्दशाभिनवस्नातकेभ्यः भाविभविष्याय सदुपदेशान् प्रादाताम्।
अथापि गुरुकुलस्यैव वरिष्ठस्नातको वर्त्तमाने बड़ौतस्थितस्य जनतावैदिकमहाविद्यालयस्य प्राचार्यो डा.यशपालशास्त्रिवर्यो गुरुकुलस्य सिद्धान्तवचनपरम्परां संरक्षितुं तदीयानुवचनानि
स्मारयन्, तत्प्रवचनम् अकारयत्।
वेदमर्मवेत्तारो गुरुकुलस्य कुलाधिपतिवर्याः, परमपूज्यगुरवो विद्यार्थिभ्योऽभिनवस्नातकेभ्यः, समस्तस्नातकेभ्यश्च उपदेशान् प्रादुः यद् येन प्रकारेण निर्माण्यां समाजाय वस्तूनि विधीयन्ते, तेन प्रकारेण शिक्षणसंस्थासु सद्विद्याभिः विद्यार्थित्वेन समाजाय मानवाः विधीयन्ते। अतो यदाप्रभृति गुरुकुलाद् बहिर्गमिष्यन्ति, तदा भवत्सु प्रत्येकं विद्यार्थी एकैकशः प्रभाताश्रमत्वेन तत्र-तत्र स्थानेषु वर्त्तिष्यते। अतस्सर्वैरेतन्मर्यादा सदा अवधेया। तैर्गुरुभिरागामिजीवनपाथेयत्वेनोपदिष्टम्, यत् संस्कृतरक्षा संस्कृतिरक्षा, वेदरक्षा राष्ट्ररक्षा चेति लक्ष्यं लक्ष्यीकृत्य समाजे अग्रेसरणीयम्, सुचरितानि सर्वत्र सारणीयानीति।
सौप्रस्थानिकसमारोहस्य शुभवेलायां मयराष्ट्रार्यसमाजस्य मन्त्री राजेशसेठीवर्यः, अशोकसुधाकरवर्यः, तत्प्रतिनिधयः, गुरुकुलस्य च स्नातकवृन्दं समेत्य अन्ये गणमान्यजनाः उपस्थिताः, यैर्दीक्षार्थिभ्यो भाविसमुज्ज्वलभविष्याय शुभकामनाः प्रकाशिताः।











