भारतीय जनतापार्टीतिदलस्य वरिष्ठो नेता नायबसिंहः अस्य मासस्य अष्टादश दिनाङ्के द्वितीयवारं हरियाणायाः मुख्यमन्त्रीपदाय शपथवचनं स्वीकृतवान्। हरियाणायाः राज्यपालेन बण्डारु-दत्तात्रेयेण पञ्चकुलायां तस्मै शपथवचनम् आकारितम्।
एतस्मिन् शपथवचन समारोहे प्रधानमन्त्रिणं नरेन्द्रमोदिनं समेत्य भाजपेतिदलस्य अनेके नेतारः उपस्थिताः आसन्। श्री सैनी इत्यमुं समेत्य त्रयोदश विधायकाः राज्यपालस्य दत्तात्रेयस्य उपस्थितौ शपथवचनानि स्वीकृतवन्तः ।
पूर्वे अस्य मासस्य षोडश दिनाङ्के , नैशनल कॉन्फ्रेंस दलस्य नेता उमर अब्दुल्लाह जम्मू-कश्मीरस्य केन्द्रशसित- प्रदेशस्य मुख्यमन्त्रिणः शपथग्रहणं कृतवान्। उपराज्यपालः मनोजसिन्हा श्रीनगरस्य शेर-ए- कश्मीर-अन्ताराष्ट्रिय-सम्मेलन-केन्द्रे प्रातः सार्ध एकादश वादने उमर अब्दुल्लाह इत्यस्मै मन्त्रिपरिषदा सह शपथं प्रतिज्ञपितवान् । नेशनल कॉन्फ्रेंस दलस्य वरिष्ठो नेता सुरिंदर चौधरी उपमुख्यमन्त्री पदस्य, सकीना इटू, जावेद-राणा, जावेद-डार, सतीश-शर्मा च मन्त्री रूपेण शपथं स्वीकृतवन्तः। अत्रावसरे कांग्रेस अध्यक्षः मल्लिकार्जुन खरगे, लोकसभायां विपक्षस्य नेता राहुल- गांधी, सपा-दलाध्यक्षः अखिलेश यादवः जम्मू-कश्मीरस्य पूर्व-मुख्यमन्त्री महबूबा मुफ्ती, भाजपादलस्य नेतारः अपि शपथ ग्रहण-समारोहे सम्मिलिताः अभवन् ।











