दीपावलिः उत्सवः

दीपावलिः २०२४ अक्टोबर् ३१ दिनाङ्के गुरुवासरे आयोज्यते।

दीपावलिः उत्सवः कार्तिक-मासस्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।
इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति ।
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति । अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरि पणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति ।