वाराणस्यां बहुविधविकासपरियोजनानां आधारशिला-स्थापनं उ‌द्घाटनं च

प्रधानमन्त्री नरेन्द्रमोदी स्वीय संसदीयक्षेत्रे वाराणस्यां सप्तशतोत्तर षड् सहस्र कोटिरुप्यकाणां बहुविधविकासपरियोजनानां आधारशिला-स्थापनं उ‌द्घाटनं च कृतवान् । अस्मिन् अवसरे प्रवदन् प्रधानमन्त्री उक्तवान् यत् अद्य वाराणसीं प्रति शिक्षा, कौशलविकासः, क्रीडा, स्वास्थ्यसेवाः, पर्यटनं च इत्यादिषु क्षेत्रेषु सम्बद्धाः विकासपरियोजनाः प्रस्तुताः येन न केवलं जनानां जीवनस्य गुणवत्तायां सुधारः भविष्यति अपितु यूनां कृते वृत्यावसराणां अवसराः अपि सृज्यन्ते । श्रीमोदी प्रकाशितवान् यत् विगतदशवर्षेषु देशे आधारभूतसंरचनाविकासाय विशालः अभियानः सर्वकारेण आरब्धः यस्य उद्देश्यं जनानां कृते सेवासुधारः, निवेशैः यूनां कृते वृत्यावसराणां सृजनं च अस्ति। कार्यक्रमे उपस्थितः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपि प्रधानमन्त्रिणः आभारं प्रकटितवान् यत् सः विकासस्य स्वरूपे दिपावल्याः उपहारं जनान् प्रदत्तवान्। प्रधानमन्त्रिणा सारनाथे बौद्धधर्मसम्बद्धक्षेत्राणां पर्यटनविकास कार्याणाम अपि उ‌द्घाटनं कृतम। बाणासुरमन्दिरस्य गुरुधाममन्दिरस्य च पर्यटनविकासकार्य, उ‌द्यानानां सौन्दर्याकरणं, पुनर्विकासादि नैके उपक्रमाः अपि समारब्धाः । प्रधानमन्त्री नरेन्द्रमोदी नेत्रचिकित्सालयस्य उ‌द्घाटने सबलं प्रतिपादितवान् यत् विगतेषु दशवर्षेषु देशस्य स्वास्थ्यसेवाक्षेत्रे परिवर्तनानि जातानि । सः न केवलं पूर्वाचले अपितु सम्पूर्ण देशे प्रमुखस्वास्थ्यसेवाकेन्द्रत्वेन वाराणस्याः वर्धमानं प्रतिष्ठां प्रकाशितवान् । श्रीमोदी स्वीय संसदीयक्षेत्रे वाराणसीनगरे राजशंकरनेत्रचिकित्सालये उ‌द्घाटनानन्तरं वदति स्म। असौ घोषितवान् यत् देशे स्वास्थ्यसेवानां मूलसंरचनानां सुदृढीकरणाय आगामिषु पञ्चषु वर्षे पञ्चसप्तत्यधिकसहस्राधिकानां चिकित्सालयानां संयोजनं भविष्यति। श्रीमोदी केन्द्रप्रशासनस्य स्वास्थ्यसेवामालक्ष्य विविधाः उपक्रमाः सूचीकृताः, येषु जनानां कृते अल्पमूल्येषु चिकित्साः प्रदीयन्ते। सः विगतदशवर्षेषु पूर्वाञ्चले पञ्चपञ्चाशदधिकानां आयुष्मान-आरोग्य-मन्दिराणां स्थापनायाः उल्लेख कृतवान्, येन औषधयः अल्पमूल्येषु जनैः प्राप्तवन्तः ।