झारखण्ड-विधानसभायै नैर्वाचनिक-प्रचाराभियानम् सजवं सशक्त्या च प्रवर्तते ।

झारखण्डराज्यस्य पूर्ववर्तिषु क्षेत्रेषु नैर्वाचनिक-प्रचाराभियानम् सजवं सशक्त्या च प्रवर्तते । क्षेत्रेऽस्मिन् प्रथमचरणीय – मतदानम् अस्य मासस्य त्रयोदशदिनाङ्‌के भविता । प्रचाराभियाने उत्तर प्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन प्रदेशस्य मुख्यमन्त्री हेमन्तसोरेनः आरोपितः यत् तेन प्रदेशोऽयं नष्टीकृतः इति । श्रीआदित्यनाथः कोडर्मायाः दोमचाचीति क्षेत्रे सभामेकां सम्बोधयन् आसीत् । अपरत्र प्रदेशस्य मुख्यमन्त्रिणा वरिष्ठ झा.मु.मो. नेत्रा हेमन्त सोरेणेन च भाजपेति दलस्योपरि धर्माधिारित – विभजनास्य आरोपः आरोपितः। तत्रैव रक्षामन्त्रिणः राजनाथसिंहस्य नैर्वाचनिक सभेऽपि रांची- लोहारडागा इत्येतयोः क्षेत्रयोः सुनिश्चिताऽस्ति । एतन्मध्ये कांग्रेस दलाध्यक्षेन मल्लिकार्जुन खड़गे इत्यनेनापि आई. एन. डी. आई. ए. इति संघस्य प्रत्याशिनां पक्षे- मतदानाय माण्डु कार्के इत्येतयोः क्षेत्रयोः मतदातृभिस्समम् अभ्यर्थना कृता।
झारखण्ड- निर्वाचनायोगः
भारतीयनिर्वाचनायोगेन अम्बर-लाकड़ा इत्यमुं देवघर-क्षेत्रस्य नूतनः आरक्षि-अधीक्षकः नियुक्तः, अजीत-पटेल-डुंगडुंग इत्यमुञ्च निष्काषितः । आयोगेन प्रदेशप्रशासनम् निर्दिष्टं यत् आरक्षि-अधीक्षकत्रयस्य प्रशासनिक अधिकारीणां समूहस्य नामप्रेषणं कुर्यादिति ।