प्राचार्य प्रो.एम.सी.पाण्डे महोदयः श्री के.एस.अय्यर वाणिज्यगौरवसम्मानेन डॉ.दीपक खाती महोदयः वाणिज्य गौरव सम्मानेन च सम्मानितौ

वार्ताप्रेषकः- डा. मूलचन्द्रशुक्लः

रामनगरम्। उत्तर-प्रदेशस्थे पीलीभीतस्थाने उपाधि-महाविद्यालये रामनगरस्थ-पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालयस्य प्राचार्य प्रो.एम.सी.पाण्डे महोदयेभ्यः श्री के.एस.अय्यर वाणिज्य गौरव सम्माननं प्रदत्तम्।तत्रैव वाणिज्य संकाये असिस्टैण्ट प्रोफेसर डॉ.दीपक खाती महोदयः वाणिज्य गौरव इति सम्मानेन सभाजितः। उभाभ्यामपि सम्माननमिदम् उत्तरप्रदेशस्थ-पीलीभीतनगरस्थ- वाणिज्य-सङ्काय-उपाधि महाविद्यालय द्वारा समायोजितायां द्विदिवसीय- अन्ताराष्ट्रियसङ्गोष्ठ्याम् अक्टूबरमासस्य पञ्चविंशतिदिनाङ्के प्रदत्तम् । अस्मिन् समारोहे अतिविशिष्टातिथिरूपेण प्राचार्यमहोदय अवोचत् यत् अहम् अनेन सम्मानव्याजेन इतोप्यधिकमुत्कृष्टकार्यकरणाय उत्साहितो भविष्यामि। वाणिज्यविषये शोधार्थम् अध्यापनार्थं विशिष्टावदानार्थञ्च उक्तसम्मानाभ्यां सभाजितौ। अस्मिन् उपलब्धि-अवसरे प्राचार्य- प्रो.पाण्डे महोदयेभ्यः डॉ.खाती महोदयेभ्यश्च समस्त- महाविद्यालय-परिवारेण सह प्रोफे. एस. एस. मोर्यः डा. मूलचन्द्रशुक्लः डा. डी. एन. जोशी इत्यादयः शुभकामनापुरस्सरं नैकानि वर्धापनानि प्रेषितवन्तः।