विदेशमन्त्री डा. एस्. जयशङ्करः अवोचत् यत् कनाडादेशे हिन्दुदेवालयस्य उपरि आक्रमणम् अतीव-चिन्ताजनकम् अस्ति इति । अद्य प्रातः कैनबरा-नगरे आस्ट्रेलिया-देशस्य स्वीयेन समकक्षेण पेनी वोङ्ग् इत्यनया सह संयुक्त-वार्ताहर सम्मेलने डा. जयशङ्करः चिन्तां प्रकटितवान् यत् कनाडा-देशे अतिवादिशक्तिनां कृते राजनीतिकस्थानं दीयते इति। असौ अकथयत् यत् कनाडा -देशः विवरणं न दत्त्वा कस्यापि आरोपस्य स्वरूपं विकसितवान् इति। कनाडा -देशे भारतीय- कूटनीतिज्ञानां निरीक्षणं अस्वीकार्यम् इति सः अवोचत्। कैनबरा-नगरे हिन्दुमन्दिराणामुपरि कृतानाम् आक्रमणानां विषये पृष्ठे सति आस्ट्रेलिया-देशस्य विदेशमन्त्री एतानि आक्रमणानि भारतीयसमुदायस्य कृते क्लेशकराणि सन्तीति कथितवती । अनया समुदीरितं यत् सर्वे आस्ट्रेलिया-देशीयाः, सुरक्षायाः सम्मानस्य च अधिकारिणः वर्तन्ते तावत् तेषाम् आस्था संस्कृतिः च कापि स्यादिति |
इतः पूर्वं विदेशमन्त्री डा. जयशङ्करः अद्य आस्ट्रेलिया-देशस्य विदेशमन्त्रिणा सह पञ्च-दश-तमायां भारत- आस्ट्रेलियादेशयोः विदेशमन्त्रिमण्डलस्य औपचरिक-वार्तायां भागम् अगृह्णात्। उभौ मन्त्रिणौ भारत-आस्ट्रेलिया-देशयोः समीपस्थेषु, भारत-प्रशान्तप्रदेशे, पश्चिम-एशिया-देशे, यूक्रेन्-देशे, वैश्विक-सामरिक परिदृश्यस्य विषये च चर्चा कृतवन्तौ।











