महापर्व छठ् लोकस्य आस्थायाः महापर्व छठ् षष्ठीपर्वणि अद्य सायंकाले खरना-विधानेन सम्पन्नः भविष्यति। श्वः सायं अस्तंगमिने सूर्याय, शुक्रवासरे प्रातःकाले च उदीयमानसूर्याय अर्धमर्पयित्वा व्रतिणाम् पारणेन षष्ठीपर्वणः समापनं भविष्यति। इदं पर्व भेदरहितं सामाजिक-सामानतां प्रदर्शयति। अस्मिन् वर्षे विभिनेषु कारागारेषु च छठ पूजनम् क्रियते। मुजफ्फरपुररस्य खुदीराम सेंट्रल जेल मध्ये केचन् कारागार बद्धाः इस्लाम-भक्ताः अपि छठ-पूजनं कारागारे कुर्वन्ति ।
नवीदिल्ली- दिल्ली, बिहार, झारखण्ड, उत्तरप्रदेश इत्यादिषु अनेकेषु राज्येषु छठपूजायाः अवसरे अवकाशदिनानि घोषितानि।
छठ पूजा पर्व छठी मैया सूर्य देवता च समर्पिता अस्ति। अयं महान् उत्सवः ०४ दिवसान् यावत् आचर्यते । कार्तिकमासे आचरितस्य अस्य उत्सवस्य प्रथमदिने नहय खायस्य परम्परा अनुसरणं भवति । परदिने खरना पूजा भवति। तदनन्तरं निर्जलोपवासः आरभ्यते । परदिने उपवासं कृत्वा अस्तं सूर्याय अर्घ्यं दत्त्वा अन्तिमे दिने उदयमानस्य सूर्याय अर्घ्यस्य परम्परा अस्ति । अस्मिन् काले जीवने सुखं शान्तिं च प्राप्तुं कामनाः क्रियन्ते । सत्यहृदयेन उपवासेन सुखसमृद्धिः वर्धते इति धार्मिका विश्वासः अस्ति । अपि च परिवारजनाः छठी मैया सूर्यदेवस्य च आशीर्वादं प्राप्नुवन्ति।
विशेषरेलयानम्
तत्रैव छठपूजोत्सवम् अभिलक्ष्य रेलविभागः यात्रिणां यात्रासौकर्यार्थं विशेष-रेलयानानि प्रचालयति। अद्य आहत्य नवदश उत्सद-सम्बद्धानि विशिष्ट-रेलयानानि दिल्ली-राष्ट्रियराजधानी- क्षेत्राभ्यां देशस्य विभिन्नेभ्यः भागेभ्यः प्रचाल्यन्ते। भागलपुर-अयोध्या-गया-बलिया-पटना- सहरसा-सीतामढी-दरभंगा-कटरा-मुम्बई-नगराणां कृते एतानि रेलयानानि सञ्चाल्यन्ते।











