रामनगर-महाविद्यालये पञ्चविंशतितमः उत्तराखण्ड-राज्य- स्थापनादिवसः आचरितः।

रामनगरम्। पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालये रामनगरे रोवर्स रेंजर्स,नमामि गङ्गे, राष्ट्रियसेवायोजना इत्यादिद्वारा उत्तराखण्डराज्यस्थापनादिवसस्य पञ्चविंशततमः स्थापनादिवसः आचरितः। कार्यक्रमस्य आध्यक्ष्यं प्राचार्येण प्रो.एम.सी.पाण्डे वर्येण निर्व्यूढम् । अनेन अस्मिन्नवसरे समेभ्यो वर्धापनानि शुभकामनाश्च वितरता राज्यस्थापनोद्देश्यं प्रति ध्यानाकर्ष्टुमाशा अभिव्यक्ता। राज्यकरविभागे असिस्टैण्ट कमिश्नर मितेश्वरानन्दः छात्र- छात्राभ्यः शुभकामनापुरस्सरम् उत्तराखण्डराज्यस्य स्वप्नान् सफलीकर्तुं आह्वयति। यू. एस. ए. इत्यत्र सीईओ प्रेरणाप्रदायकसम्बोधनपूर्वकं डॉ. जितेन्द्रपन्तेन उच्यते यत् छात्र- छात्राः छात्रजीवनादेव उच्चस्तरीय-भविष्यनिर्माणे सत्पराः भवेयुः। डॉ. नरेश कुमारःमहोदयः सविस्तरं वक्ति यत् उत्तराखण्ड- राज्यस्य अवधारणानां भविष्ये तस्य समुचितविकाससम्भावनानां च सन्दर्भे सर्वैरपि चिन्तनीयः। रोवर्स रेंजर्स प्रभारी, डॉ.जे.पी. त्यागी महोदयः कार्यक्रमे उपस्थितानां समेषां धन्यवादं विज्ञापयति। तदनन्तरं राष्ट्रियसेवायोजनायाः स्वयंसेवकैः,रोवर रेंजर्स इत्यस्य नमामि गङ्गे इत्यस्य च छात्र- छात्राभिः महाविद्यालयपरिसरे स्वच्छताभियानं सञ्चालितम्।कार्यक्रमस्य सञ्चालनं डॉ सुरेश चन्द्रा द्वारा विहितम्। कार्यक्रमे डॉ. सुमन कुमारः, डॉ. ललित मोहनः, डॉ. दीपक खाती,नमामि गङ्गे प्रभारी,डॉ. नीमा राणा, डॉ. ममता भदोला छात्रछात्राश्च समुपस्थिता आसन्।