प्रधानमन्त्री नरेन्द्रमोदी गयानायाः सर्वोच्चराष्ट्रियसम्मानेन “द ऑर्डर ऑफ-एक्सिलेंस’ इत्यनेन सम्मानितो जाताः। तस्मै सम्मानमिदं तस्य विकासशील देशानाम् अधिकाराणां वैश्विक- मञ्चेषु समर्थनाय वैश्विकसमुदायाय च अद्वितीय -सेवाः भारत-गयाना-देशयोः च सम्बन्धान् प्रबलीकर्तुं प्रदत्तम् इति। गयानायाः राष्ट्रपतिः डॉ. इरफान अली-इत्येषः गयाना-स्टेट-हॉउस- इत्यत्र श्रीमोदिने सम्मानमिदं प्रदत्तवान्। सम्मानं प्राप्य श्रीमोदी डॉ. इरफान अली-इत्यस्मै धन्यतावचांसि समर्पितवान्। असौ प्राप्त सम्मानं समग्रभारतीयेभ्यः उभयोः देशयोः मध्ये निहितेभ्यः इतिवृत्तगतेभ्यः सम्बन्धेभ्यः च समर्पितवान्। असौ सबलं प्रतिपादितवान् यत् तस्य इयं गयानायात्रा भारत-गयाना-देशयोः मैत्रीपूर्ण-सम्बन्धं इतोऽपि सुदृढीकरणदिशि भारतस्य सतत-प्रतिबद्धतायाः प्रमाणमस्ति इति। प्रधानमन्त्री मोदी जॉर्जटाउन-नगरे गयानायाः संसदं सम्बोधितवान । प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपति इरफान अली इत्यस्य गुयाना सर्वोच्चपुरस्कारं प्राप्तुं आभारं प्रकटितवान्। सः १.४ सहस्रकोटिः कोटि भारतीयानां प्रतिनिधित्वं करोति इति बोधयति स्म ।











