प्रधानमन्त्रिणा ब्राजीलदेशस्य रियो डी जनेरियोनगरे जी-विंशतिः शिखरसम्मेलनं सम्बोधयता वैश्विकदक्षिणस्य दुर्दशायाः विषयेभ्यः बलं प्रदत्तम्। सः वैश्विकसङ्घर्षाणां खाद्य-इन्धन-उर्वरकाणां च आपूर्ति प्रति दुष्प्रभावं प्रकाशितवान्, जी-विंशतिः-सङ्घटनं एतेषां राष्ट्राणां समाव्हानानां प्राथमिकताम् दद्यात् इति आग्रहं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्, वैश्विकसङ्घर्षेण वैश्विकदक्षिणं संकटान् सम्मुखीकुर्वन् अस्ति। सामाजिकसमावेशस्य विषये एकं सत्रं सम्बोधयन् श्रीमोदी वैश्विकदक्षिणे वैश्विकसङ्घर्षाणां असमानुपातिकप्रभावं अपि प्रकाशितवान्। शिखरसम्मेलने निर्धनता-बुभुक्षयोः च निवारणाय वैश्विकएकरूपतायाः आरम्भः अभवत्, यस्य समर्थनं अशीति राष्ट्रः कृतम् । जी-विंशतिः शिखरसम्मेलनस्य प्रथमदिने क्षुधा-निर्धनता-इत्येतयोः
वैश्विक-संयुतेः, वैश्विक शासन-संस्थासु परिष्कारस्य च विषये सफल सत्राणां आयोजनं जातम्, तत्रैव अस्मिन् सम्मेलने नैकाः द्विपक्षीय-समागमाः अपि आयोजिताः, येषु प्रधानमन्त्री श्रीमोदी भागं भजितवान्। प्रथमदिने आयोजितेषु द्विपक्षीयोपवेशनेषु यूके, नॉर्वे, इन्डोनेशिया, इटली, फ्रांस् देशानां राष्ट्रप्रमुखाः सम्मिलिताः आसन्। उपवेशने व्यापारस्य, रक्षायाः, पर्यटनस्य च अन्येषां केषाञ्चन विषयाणां यथा एआइ, हरितोर्जा, अन्तरिक्ष इत्यादीनां विषये सहकार्याणां उपरि चर्चा जाता। एतत् स्थायिविकासः, जलवायुपरिवर्तनस्य, वैश्विकस्वास्थ्यस्य, आर्थिकपुनरुत्थानस्य, बहुपक्षीयतायाः भविष्यस्य च इत्यादीनां विषयेषु विस्तृतपरिधिषु केन्द्रितम् अस्ति।
प्रधानमन्त्रिणा घोषितं यत् ब्रिटेन इत्यत्र द्वौ नूतनौ वाणिज्य दूतावासौ उद्घाटितौ भविष्यतः। द्वितीये दिवसे सदस्याः द्वयोः सत्रयोः, सततविकासः ऊर्जासंक्रमणं च द्वितीयसत्रे च डिजिटलमूलसंरचनायाः विषये भागं ग्रहीतवान । प्रधानमन्त्री श्रीमोदी सततविकास ऊर्जासंक्रमणयोः च सत्रं सम्बोधितवान । यतो हि आइ०बी०एस०ए० (इंडिया ब्राजील साउथ् अफ्रीका ) संयुतेः सदस्याः अपि अस्मिन् वर्षे ट्रोईका इत्यस्य भागाः सन्ति, एतानि राष्ट्राणि आइ०बी०एस०ए० इत्यस्य अन्तर्गतं सामूहिकविषयेषु चर्चा शिखर सम्मेलनावधौ मेलनम्। अपि च द्वितीये दिने अपि नैकाः द्विपक्षीयकार्यक्रमाः अभवन्।











