इसरो-पीएसएलवी सी-59 प्रक्षेपणम्

भारतीय-अंतरिक्ष अनुसंधान संगठन (इसरो) इत्यनेन गत सायं श्रीहरिकोटायाः सतीश धवन अंतरिक्ष केंद्रे पीएसएलवी सी-59 इति प्रक्षेपण यानस्य सफलतापूर्वक प्रक्षेपणं कृतमस्तिा अनेन प्रक्षेपणयानेन श्रीहरिकोटायां स्पेसपोर्ट इत्यत्र प्रक्षेपणस्थलात् सायं चतुरधिक-चतुर्वादने उड्डयनं समारभत्। प्रक्षेपणस्य अनन्तरं, इसरो इत्यनेन एक्स्-इति सार्वजनिक-संदेशपटले प्रोक्तं यत्, पीएसएलवी-सी59 इत्यनेन सफलतापूर्वक आकाशे प्रयाणं कृतमस्ति, येन इसरो इत्यस्य तान्त्रिक्या विशेषज्ञतया सह यूरोपीय-अंतरिक्ष-संगठनस्य प्रोबा-3 उपग्रहाणां स्थापनाय न्यूस्पेस-इंडिया लिमिटेड इत्यस्य नेतृत्वे एकस्य वैश्विकाभियानस्य समारम्भम् अभवत्। अवधेयं यत् प्रोबा 3 यूरोपीय-अंतरिक्ष-संगठनस्य प्रदर्शनाभियानम् अस्ति। अस्मिन् अभियाने द्वयंतरिक्षयाने सम्मिलिते स्तः, ये युगपदेव कक्षायां संस्थापविष्येते।