भाजपा इति दलस्य वरिष्ठ नेता देवेन्द्र फडनवीसः गत सायं तृतीयवारं महाराष्ट्रस्य मुख्यमन्त्रित्वेन शपथग्रहणं स्वीकृतवान्।
महाराष्ट्रस्य राज्यपालमहोदयः सीपी राधाकृष्णन् इत्यसौ विगत पञ्च दिनाङ्के सायंकाले सार्धपञ्चवादने मुम्बय्याः ऐतिहासिके आजादमैदान इति प्राङ्गणे तेभ्यः पदगोपनीयतायाः शपथं ग्राहयिष्यत्वान् । एतत्पूर्व गतदिने श्रीफडणवीसः सर्वसम्मत्या भाजपा विधायक दलस्य नेतृरूपेण चितः। श्रीफडणवीसः सहयोगिभिः दलप्रमुखैः शिवसेनाप्रमुखेण एकनाथशिंदे इत्यनेन, अथ एनसीपी दलप्रमुखेण अजितपवार इत्यनेन च साकं राज्यपालवर्येण साकं उपवेशनं कृतवान्।
भाजपा दलस्य नेतृत्वे महायुति ग्रन्थिबन्धनेन महाराष्ट्रस्य विधानसभा निर्वाचने त्रिंशदुत्तर द्विशतं निर्वाचनासनानि विजितानि आसन्। भाजपा दलेन सह शिवसेना, राष्ट्रवादीकांग्रेस दलं च महायुतौ सम्मिलिताः सन्ति। शपथग्रहण समारोहे प्रधानमन्त्री नरेन्द्रमोदी, वरिष्ठ केन्द्रीय मन्त्रिणाः, एनडीए ग्रन्थियुतशासनानां मुख्यमन्त्रिणाः, अन्ये च गणमान्याः उपस्थिताः आसन्।











