केंद्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे हैमन्तीय-कार्यशाला समनुष्ठिता

संवादक:-प्रवेशकुमारशुक्ल: ,भोपालम्

भोपालस्थ केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे पौषकृष्णतृतीयात: पौषकृष्णनवमीपर्यन्तमियं कार्यशाला समायोजिता। १८/१२/२०२४ त: २४/१२/२०२४ दिनांड्कपर्यन्तम्सप्तदिनानि यावत् “नटाड्कुश-अभिनयदर्पणयो: पाठ:” प्रचलिष्यति । प्रथमं विद्याधात्रीम्सम्पूज्य मंगलाशासनेन च कार्यशाला प्रारम्भा ।
विषयविशेषज्ञ-मुख्यातिथिरूपेण च राष्ट्रियसंस्कृतसंस्थानस्य कुलपतिचरा: प्रो० राधाबल्लभत्रिपाठिवर्या: समागता:। विशिष्टातिथित्वेन महाराजा-सयाजीराव-विश्वविद्यालयस्य नृत्यविभागस्य आचार्या डा० स्मृतिवाघेला महोदया आगता। सर्वेषामतिथीनां वाचिकं स्वागतं भोपाल-परिसरस्य सह-निर्देशका: प्रो० नीलाभतिवारिमहोदयै: कृतम्। अध्यक्षीयपदमलम्कुर्वन्त: परिसर-निदेशका: प्रो० रमाकान्तपाण्डेयमहोदया: । मञ्चसञ्चालनं – डा० शीतांशुत्रिपाठि एवञ्च सर्वेषां सुधीनां धन्यवादज्ञापनं नाट्यशास्त्राध्ययनानुसंधानकेन्द्रस्य आचार्या: डा० संगीतागुन्देचामहोदया: कृता: । अयं कार्यक्रम: CSU भोपाल -परिसरस्य साहित्यविभागाध्यक्षा: प्रो० सनन्दनकुमारत्रिपाठिमहोदयानां संयोजकत्वेन प्रचलनस्ति । प्रो० प्रदीपकुमारपाण्डेय: , डा० दातारामपाठक:, डा० कल्याणीफाल्गे प्रभृताचार्या: अन्यविश्वविद्यालयस्य प्रशिक्षुकाश्च समुपस्थिता: आसन्।