संस्कृतं भारतस्य आत्मा, संस्कृतं भारतस्य गौरवं ,संस्कृतं सर्वेषां, संस्कृतं सर्वत्र ,संस्कृतम् अत्यन्तं सरलं,सरसं, मधुरं बोधगम्यंं च वर्तते। दशदिवसीयसम्भाषणशिबिरं श्रद्धया पठनेन संस्कृतेन सम्भाषणं साध्यम् – आचार्यः विशालप्रसादभट्टः
संस्कृतं देवभाषा वर्तते अतः वयं मानवाः अपि यदि स्वीयनित्यजीवने देवभाषया व्यवहारं कुर्मः तर्हि अस्मासु अपि अवश्यं देवत्वं प्रतिष्ठापितं भविष्यति – पूज्याः श्रीशिवैय्यास्वामिवर्याः
वार्ताहरः – आचार्यः विशालप्रसादभट्टः
अनन्तपुरम् , आन्ध्रप्रदेशः १९.१२.२०२४ दिनाङ्के, गुरुवासरे अनन्तपुरस्थे श्रीशिवकोटिमन्दिरे श्रीपीठे केन्द्रीयसंस्कृतविश्वविद्यालयेन आन्ध्रप्रदेशकेन्द्रीयविश्वविद्यालये सञ्चालितं संस्कृताध्ययनकेन्द्रम् अपि च संस्कृतभारती-अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन समायोजितस्य दशदिवसीयसंस्कृतसम्भाषणशिबिरस्य समुद्घाटनं सञ्जातम् । कार्यक्रमस्यास्य शुभारम्भः वैदिकमङ्गलाचरणपुरस्सरं ध्येयमन्त्रेण समभवत्। तत्र प्रशिक्षार्थिभिः कार्यक्रमाध्यक्षरूपेण समागतानां श्रीशिवकोटिमन्दिरस्यास्य संस्थापकानां पूज्यानां श्रीमतां शिवैय्यास्वामिचरणानां सानिध्यम् आशीर्वचांसि च सम्प्राप्तानि।अनन्तरं केन्द्रशिक्षकेण आचार्यविशालप्रसादभट्टेन सविस्तरं संस्कृतस्य वैशिष्ट्यं प्रतिपाद्य पठतसंस्कृतम् इति शिबिरगीतगायनेन वर्गस्य प्रारम्भः विहितः । तदनु शिबिरशिक्षकेण आचार्यविशालप्रसादभट्टेन प्रथमदिवसस्य पाठ्यबिन्दूनाम् उपस्थापनम् अभ्यासः प्रयोगः इति सोपानक्रमेण संस्कृतेन परस्परं परिचयः, एतत्तच्छब्दयोः त्रिषु लिङ्गेषु पाठनं कृतम्। एवं क्रमशः अग्रिमबिन्दूनामपि पाठनं विहितम्। शिबिरेSस्मिन् १८ सामाजिकाः महिलाः पुरुषाश्चोपस्थाय समुत्साहेन भागं गृह्णन्ति। अन्ते सर्वेैरपि प्रशिक्षार्थिभिः सम्भूय शान्तिमन्त्रः समुच्चारितः। जयतु संस्कृतं, जयतु भारतम्।











