भारतीयः ग्राण्डमास्टर इति चतुरङ्ग क्रीडकः डोम्माराजु गुकेशः विश्वस्य कनिष्ठतमः चतुरङ्गविजेता अभवत्।
गुकेशः इतिहासं विरचितवान्, सः सिङ्गापुरे एफ़्० आइ० डी० इ० इति विश्वचतुरङ्गप्रतियोगितायाः चतुर्दशतमे, अन्तिमे च द्वन्द्व चीनदेशस्य डिंग लिरेन् इत्येनं पराजयित्वा अष्टादश तमायां विश्वचतुरंगप्रतियोगिताम् अवाप्तवान्, अन्तिमक्रीडायाः पञ्चमहोरापर्यन्तं बहिः कर्षन् डिंगः पञ्चपञ्चाशत् तमे चालने एकां त्रुटिं कृतवान् येन कारणेन सः पराजितवान् ।
भारतस्य अष्टादश वर्षीयः विलक्षणः क्रीडकः सप्त दशमलव पञ्च अंकं प्राप्य स्वस्य स्थानं संरक्षितवान्, तत्रैव चीन देशीयः क्रीडकः डिंगः प्रतियोगितायां षड् दशमलव पञ्च अंकं प्राप्तवान्। कुल चतुर्दश मेलनेषु गुकेशः त्रिषु क्रीडासु विजयं प्राप्तवान्, डिंगः द्वयोः द्वन्द्वयोः सफलः अभवत्, शेषं नव मेलनानि समानानि अभवन्। भारतीयः ग्राण्डमास्टर क्रीडकः अवदत् यत्, तस्य जीवनस्य सर्वोत्तमः क्षणः आसीत्। गैरी कास्पारोवः अपि द्वाविंशतिः वर्षीयः एव आसीत्। गुकेशः चतुर्थ वारं उपाधिं प्राप्तवान् विश्वनाथन् आनन्दस्य पश्चात् भारतस्य द्वितीयः विश्वविजेता अस्ति। विश्वनाथन आनन्दः गुकेशस्य उपलब्धः अभिनन्दनं कृतवान्। ।











