विगत एकोन विन्शति दिनाङ्के भाजपा विपक्षदलयोः सदस्यानां विरोध-प्रतिरोधयोः मध्ये संसदभवनस्य सङ्कले भाजपा दसस्व सांसदौ प्रतापसारङ्गी, मुकेशराजपूतौ च घातितौ। वार्ताहरैः सह वार्तालापं कुर्वन् श्रीसारङ्गी आक्षिप्तवान् यत् लोकसभायां विपक्षनेता राहुलगान्धी एकं सांसदं भारपूर्वकम् कर्षण म् कृतवान यः तस्य उपरि पतितः तदनन्तरं सः घातितः। सः अवदत् यत् सः सोपानस्य समीपे स्थितः आसीत् यदा श्रीगान्धी आगतः। सूत्रानुसारी प्रधानमन्त्री नरेन्द्रमोदी आहतान् सांसदान् आहूय तेषां स्वास्थ्यस्य विषये पृष्टवान्। संसदीय कार्याणां मन्त्री किरेन रिजिजुः बस्याः घटनायाः निन्दां कृतवान् । श्रीगान्धिनः नेतृत्वे काङ्ग्रेस-सांसदाः भाजपायाः-सांसदानाम् उपरि आक्रमणं कृतवन्तः इति सः आक्षिप्तवान् । सः काङ्ग्रेसस्य बरिष्ठनेतुः शारीरिकशक्तिप्रयोगेन आचरणं प्रति आक्षेपं कृतवान् ।
राहुलगान्धिना उक्तं यत् यदा सः संसदस्य अन्तः गन्तुं प्रयतमानोऽभवत् तदा भाजपासांसदाः तं निवारयितुं प्रयतन्ते स्म। तेषां कृते सः बलस्य प्रयोगं कृतवान्, तर्जितः च इति उक्तवान् । तेनोक्तं यत् एतत् प्रवेशद्वारं अस्ति, तस्मै सदनस्य अन्तः गन्तुं अधिकारः अस्ति। संसदस्य प्रवेशे बाधां कुर्वन्तः सत्तारूढ दलस्य सांसदाः लोकसभा अध्यक्षेण निर्गतनिर्देशानां उल्लङ्घनं कृतवन्तः इति काङ्ग्रेसस्य सांसदः शशि थरूरः अवदत् । सः अवदत् यत् कोऽपि सदस्यः प्रवेशद्वारं अवरुद्धं न अर्हति। राज्यसभायां काँग्रेसनेता मल्लिकार्जुनखर्गे आरोपितवान् यत् सः भाजपा-सांसदैः शारीरिकरूपेण दुरोत्सारितवान् इति। सः लोकसभा अध्यक्षाय ओम बिरला इत्यस्मै पत्रं लिखित्वा अस्य घटनायाः अन्वेषणं कर्तुं आग्रहं कृतवान् अस्ति।
संसदस्य बहिः वार्ताहरैः सह वार्तालापं कुर्वन् सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः काङ्ग्रेसपक्षे प्रहारं कृतवान्। सः अवदत् काङ्ग्रेसः संसदस्य गौरवं न्यूनीकरोति इति आरोपितवान् । संसदभवनस्य परिसरे शान्तिपूर्ण-विरोधस्य समये भाजपेति दलस्य द्वौ सांसदौ व्रणित, काङ्ग्रेसदलस्य नेतुः राहुलगान्धिनः विरुद्धं आक्रमणस्य, उद्दीपनस्य च विषये भाजपादलं दिल्ली-आरक्षकान् प्रति परिवादं दत्तवान्, काङ्ग्रेस्-दलमपि भाजपा-दलस्य विरुद्धं परिवादं दत्तवान्।
भाजपेतिदलेन ख्यापित-परिवेदनान्तरं दिल्ल्यारक्षकैः कांग्रेसदलस्य राहुलगान्धिनः यत केवलं विरुध्य प्राथमिकी पञ्जीकृता। दिल्ल्यारक्षिणा प्रोदीरितं भारतीयन्यायसंहितायाः नवाधिकैकशतं धारा अपसारिता अन्याः च सर्वाः धाराः ताः एव सन्ति याः परिवेदनायां प्रदत्ताः। भाजपेतिदलस्य अनुरागसिंहठाकुरः बांसुरीस्वराजः हेमंगजोशी इत्येते लोकसभायाः विपक्षनेतुः राहुलगान्धिनः विरुध्य संसत्मार्गस्य दिल्ल्यारक्षि-स्थानके प्राथमिकी सूचितवन्तः।
लोकसभाध्यक्षेण ओमबिडलाइत्यनेन कठोरादिष्टं यत् केनापि राजनीतिकदलेन सांसदसमूहैश्च संसत्भवनस्य कस्मिन्नपि द्वारे प्रदर्शनम् नैव आचरणीयम्। निर्देशोऽयं संसत्परिसरे जातां घटनाम अभिलक्ष्य प्रख्यापितः । अध्यक्षः ओम बिरला सांसदेभ्यः आग्रहम् अकरोत् यत् सर्वे नियमान् कठोरतया पालयन्तु, संसदः कस्मिन् अपि द्वारे विरोधं न कुर्युः इति। सः तान् कस्यापि विचलनस्य सन्दर्भ कार्यजातस्य पूर्वसूचनाम् अददात्।
लोकसभायां अस्य विन्शति दिनाङ्के, कोलाहलस्य मध्ये, लोकसभया “एकं राष्ट्रम् एकं निर्वाचनं” सम्बद्धौ द्वौ विधेयकौ संसदः संयुक्तसमितेः कृते निर्दिष्टौ । समितौ लोकसभायाः सप्तविंशतिः सदस्याः, राज्यसभायाः द्वादश सदस्याः च सन्ति। समितिः अग्रिमसंसद-सम्मेलनस्य अन्तिम सप्ताहाभ्यन्तरे प्रथमदिवसे एव स्वप्रतिवेदनं सभायां समर्पयिष्यति। पश्चात् अध्यक्षः ओम बिरला सभां अनिश्चितकालं यावत् स्थगितवान्।
राज्यसभायाम् अपि सभापतिः जगदीप-धनखडः स्वीये समापन-भाषणे दुःखं प्रकटितवान् यत् अस्मिन् सत्रे निरन्तर-बाधायाः कारणात् उत्पादकता केवलं चत्वारिंशत् प्रतिशतं यावत् आसीत्। पश्चात् धनखड-वर्यः उच्चसदनम् अनिश्चितकालं यावत् स्थगितवान्। गतमासस्य पञ्चविंशतिः दिनाङ्के संसदः शीतकालीन-संत्रं प्रारब्धम् आसीत्।











