वार्ताहर:-प्रवेशकुमारशुक्ल: , भोपालम्
भोपालस्थ केन्द्रीयसंस्कृतविश्वविद्यालय परिसरीय भवभूतिप्रेक्षागृहे पौषशुक्लषष्ठीतिथौ संस्कृतभारत्या: मध्यभारतस्य प्रान्तसम्मेलनस्य समापनसमारोह: अनुष्ठित:। भारतीयजनतापार्टीप्रदेशमहामन्त्री दक्षिणपश्चिम विधायक:- भागवानदाससबनानी महोदया: आगता:। विशिष्टातिथित्वेन अवन्तिकास्थ महर्षिपाणिनिसंस्कृतविश्वविद्यालयस्य यशश्विन: कुलपतय: प्रो० सी० जी०विजयकुमारमेनन महोदयेनोक्तम् “संगच्छध्वं सं वदध्वं सं वै मनांसि जानताम्” सर्वेभारतीया: समं गच्छन्तु परस्परं स्नेहभाव: स्यात् । सत्यवतीसुत: कथित: “परोपकार: पूर्ण्याय पापाय परिपीडनम्” अस्माकं व्यवहारे परोपकारस्य भावना भवेत्। संस्कृतभारत्या: अखियभारतीयसहसड़्घटनमन्त्रिण: मुख्यवक्तृत्वेन श्रीमान् दत्तात्रेयबज्रल्लीमहाभागा: उक्तं यत् भारतीयजीवने वृक्षवत् जीवनमासीत् यथा छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे” तथैवजीवनं स्यात्। संस्कृतभारत्या: मध्यभारतस्य प्रान्ताध्यक्षा: डा० अशोकसिंहभदौरियामहोदया: सभायामाध्यक्षपदमलड़्कृतवन्त: । भोपाल परिसरस्य निदेशका: प्रो० रमाकान्तपाण्डेय: सहनिदेशक: प्रो० नीलाभतिवारि: वरिष्ठकार्यकर्तार: प्रान्तमन्त्रि: डा० दिवाकरशर्मण: डा० पुरुषोत्मतिवारि:, डा० नीरजशर्मण: , डा० पवनद्विवेदी, डा० बृजेशसाहु डा०कमलचन्दसंकडिया डा० भरतबाथम उपस्थाता: आसन् । मातृभूमि: भारतम् मातृभाषा संस्कृतमिति उद्घोषणेन सभा सुसम्पन्ना।











