रामनगरमहाविद्यालये स्वर्ण- जयन्तीकार्यक्रमाः पादपारोपणेन प्रारब्धाः

वार्ताहरः- डॉ. मूलचन्द्रशुक्लः

रामनगरम्। पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य पञ्चाशत्स्थापनावर्षं प्रारब्धम्। अस्मिन्नवसरे प्राचार्येण प्रो.एम.सी.पाण्डे वर्येण महाविद्यालयपरिसरे पादपारोपणं विधाय स्वर्णजयन्तीवर्षस्य प्रारम्भः कृतः। तेनोक्तं यत् महाविद्यालयः 1975 तमे वर्षे स्थापित आसीत् , वर्षेस्मिन्नयं पञ्चाशत्तमे वर्षे प्रविशति। अत्र स्वर्णजयन्तीवर्षे महाविद्यालये पञ्चाशत् पादपारोपणस्य लक्ष्यं निर्धारितं वर्तते। यस्यान्तर्गत- विविध-आलङ्कारिकपादपानाम् औषधीयपादपानाञ्च आरोपणं विधास्यते। एतानि अनेकविधपादपानि महाविद्यालयी यपरिधेः सम्पूर्ण-आन्तरिकसीमाक्षेत्रेषु समारोपितानि भविष्यन्ति।यानि आगमन-प्रत्यागमनकर्तृणां पथिकान्नपि स्वं प्रति आकृष्टानि करिष्यन्ति। अस्मिन्नुपलक्ष्ये प्राचार्य प्रो.पाण्डे द्वारा कार्मिकैः सह एका सभापि समायोजिता। यत्र वर्षपर्यन्तानामायोजयिष्यमाणानांस्वर्णजयन्ती-कार्यक्रमाणां प्रास्ताविकं निर्मितम्।स्वर्णजयन्ती-वर्षस्य वर्धापनानि पुरस्कृत्य तेनोक्तं यत् राष्ट्रिय- अन्ताराष्ट्रिय सङ्गोष्ठी, प्रशिक्षणम्, कार्यशाला, सांस्कृतिककार्यक्रमाः,विभिन्नभवननिर्माणम्,नवीनपाठ्यक्रमसञ्चालनम्, नवीनपाठ्य-क्रमनिर्माणसहभागिता-इत्यादिषु विशिष्टविषयेषु प्राध्यापकानां शिक्षणेतरकार्मिकाणाञ्च क्रियात्मकप्रतिभागितायै आशा व्यक्तीकृता वर्तते।अस्मिन्नवसरे कुलानुशासकः प्रो.एस.एस.मोर्या,प्रो.पुनीता कुशवाहा, प्रो.अनुमिता अग्रवाल, प्रो.अनीता जोशी, डॉ.लवकुश कुमारः,डॉ.सुमन कुमारः, डॉ.सिराज अहमदः,डॉ.शरद भट्टः, डॉ. मूलचन्द्रशुक्लः आदयः प्राध्यापकाः शिक्षणेतर-कार्मिकाश्च उपस्थिता आसन्।मञ्चसञ्चालनं डॉ. डी.एन.जोशी महोदयेन कृतम्।