उज्जयिन्याम् आयोजितस्य संस्कृतभारतीमालवा -प्रान्तस्य त्रिदिवसीय- प्रान्त -कार्यकर्तृ -सम्मेलनस्य समारोप:।

वार्ताहरः – डॉ.दिनेश चौबे, उज्जयिनी

संस्कृतभारतीमालवा – प्रान्तस्य त्रिदिवसीय- प्रान्त -कार्यकर्तृ -सम्मेलनं दिसंबर मासस्य ३१ दिनाङ्कत ०२ जनवरी २०२५ पर्यन्तम् उज्जयिन्यां विद्याभारतीकार्यालये जातम्। तत्र ९२ स्थानेभ्य: १९५ कार्यकर्तार: उपस्थिता: आसन्। सम्मेलने मार्गदर्शनार्थम् अभा- सहसङ्घटन- मन्त्रिवर्या: श्रीमन्त: दत्तात्रेयवज्रल्ली- महोदया: समागताः।
उद्घाटन-कार्यक्रमे मुख्यातिथि-रुपेण राज्यसभा-सांसद: वाल्मीकिपीठाधीश्वर: च श्रीउमेशनाथ-महाराज: उपस्थितः आसीत्। विशेषातिथय: महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य कुलगुरु: आचार्य: विजयकुमारमेननमहाभाग:, कालिदाससंस्कृत-अकादमी – निदेशक: डॉ.गोविन्दगन्धेवर्य:, मध्यक्षेत्रसंयोजक: श्रीभरतबैरागी-महोदय:, उज्जैननगरस्य महापौरवर्य: मुकेशटटवाल-महाभाग:, मालवा-प्रान्तमन्त्री – सुरेन्द्रशर्ममहोदया उपस्थिता: आसन्। अध्यक्षता प्रान्ताध्यक्षा सीमाजिन्दलमहोदया कृतवती। समारोपावसरे मुख्यातिथि: विक्रमविश्वविद्यालयस्य, कुलगुरुः आचार्य: अर्पणभारद्वाजमहोदय: आसीत्। विशिष्टातिथिः महर्षिसान्दीपनि राष्ट्रियवेद-विद्याप्रतिष्ठानस्य, सचिव:, आचार्य: विरुपाक्ष: वि. जड्डीपालवर्य: तथा च उज्जैननगरनिगमाध्यक्षा कलावतीमहोदया आसीत्। कार्यक्रमे सङ्घटनाय भूमि-दानकर्तु: श्रीमान्सुभाषवैद्य-महोदयस्य सम्मान्नम् अपि जातम् आसीत्। कार्यक्रमे महर्षिपाणिनिसंस्कृतवैदिक विश्वविद्यालयस्य एवञ्च कालिदाससंस्कृतादम्या: सहयोगः आसीत्। सम्मेलने अन्ये गणमान्यजना: संस्कृतानुरागिणञ्च उपस्थिता: आसन्।