अस्माकं संस्कृति: अस्माकं परिचयः-डा.शैलपुत्री
वार्ताहर:- कुलदीपमैन्दोला।
नवचेतना-अकादमी-नीमकारोली-नगरस्य वार्षिकोत्सवः अत्युत्साहेन संपन्नः। अस्मिन् अवसरेऽपि छात्रैः रम्यरङ्ग: सांस्कृतिकः कार्यक्रमः प्रस्तुतः, यस्मिन् वातावरणं शोभितम्। कार्यक्रमस्य मुख्यातिथिः राज्यमहिला-आयोगस्य अध्यक्षा कुसुमकण्डवालमहोदया उक्तवती यत् अधुना संस्कारयुक्त- शिक्षायाः परमावश्यकता अस्ति। तदनुसारं नवचेतना अकादमी विद्यार्थिनां भविष्याय सुन्दरं प्रयासं कुर्वन्ती अस्ति।
अस्मिन् अवसरेऽपि राज्यादोलनकारिणः स्वर्गीयः डॉ.सी.एम. नवानी स्मृति-पुरस्कारः साहित्यकाराय डॉ. सुनीलथपलियालाय समर्पितः। विशिष्टातिथिः अखिलभारतीयसाहित्य- अकादमीपुरस्कारप्राप्ता, सुप्रसिद्धा लेखिका, साहित्यकारविशिष्टा, योगविशेषज्ञा डॉ. कविता भट्टशैलपुत्री” उक्तवती यत् अस्माकं संस्कृति: अस्माकं परिचयः अस्ति। सा अस्मान् अतीतेन संयोजयति तथा भविष्यस्य मार्गं प्रशस्तयति। अस्माकं जीवनस्य प्रत्येकं पक्षं आकारयति च, अस्मान् नैतिकता, सहिष्णुता, भ्रातृत्वं च शिक्षयति।
विद्यार्थिभिः गढ़वाली, कुमाऊनी, नेपाली, पंजाबी, गुजराती चेत्यतेषां अन्येषां लोकनृत्यानां रम्यरङ्गं प्रदर्शनं कृतम्। मुख्यशिक्षाधिकारी विनोद-ढौंडियालमहोदयः समागत्य सर्वेषां विद्यार्थिनां कृते शुभकामनां दत्तवान्। सः उक्तवान् यत् शिक्षया सह सांस्कृतिककार्यक्रमाणां महान् महत्वम् अस्ति।
विशिष्टातिथिः देवेंद्रसिंहनेगी महोदयः विद्यार्थिनां कृते आशीर्वादं दत्त्वा उक्तवान् यत् जीवनस्य प्रगत्यै लक्ष्यम् अत्यावश्यकं अस्ति। इस्कॉन-ऋषिकेशतः आगतः सन्तदीनागोपालदासः उक्तवान् यत् भारतीयसंस्कृतिः केवलं परम्पराणां रीतिपरम्परा च परिधौ न सीमिता। सा अस्माकं पर्वेषु, कलायाम्, सङ्गीते, नृत्ये, भाषायाम्, साहित्ये च प्रतिफलति।
कार्यक्रमस्य सुसंचालनं डॉ. सुनीलथपलियालमहोदयेन कृतम्। प्रधानाचार्या नीलम-नवानी, अभिभावक-संघाध्यक्षा ज्योति-बर्थवाल:, पूर्वपार्षदः विपिनपंत:, विद्यालयप्रबंधकः अनिलनवानी च अस्मिन् अवसरे उपस्थिताः आसन्।











