“चिन्तायाः कारणं नास्ति,” इति स्वास्थ्यमन्त्रालयः आग्रहं करोति
चीनदेशे ह्यूमन-मेटान्यूमो-वायरस एच् एम्. पी. वी. इत्येतस्य सङ्क्रमणस्य सम्प्रसारण-व्याकुलतायाः मध्ये कर्णाटकराज्येऽपि अस्य सङ्क्रमणस्य द्वे प्रकरणे समागते। स्वास्थ्य-परिवार-कल्याण-मन्त्रालयानुसारि भारतीय- चिकित्सानुसन्धान-परिषदा अस्य एच्. एम्. पी.वी. इत्येतस्य सङ्क्रमणस्य द्वे प्रकरणे समङ्किते। ययोः एका मासत्रयस्य शिशुबालिका अष्टमासस्य एकः शिशुः च सङ्क्रमितौ जातौ। स्वास्थ्य मन्त्रालयेन निगदितं यत् एच्. एम. पी. वी. इति सङ्क्रमणं पूर्वमेव भारतं समेत्य समग्रे हि विश्वे प्रसृतम्। अनेकेषु देशेषु च जनेषु श्वसन-सम्बद्ध-रोगाणां प्रकरणानि सम्मुखं समागतानि। परिषदनुसारि देशे इन्फ्लूएंजा इति सदृशेषु रोगेषु काऽपि असामान्या वृद्धिः नैव दृष्टा इति। अत्रान्तरे विश्व-स्वास्थ्य-सङ्घटनम् चीनस्य स्थितिविषये यथासमयः नवीनां सूचनां प्रददाति।











