एकं राष्ट्रम् -एका सदस्यता

प्रशासनेन “वन नेशन वन सब्सक्रिप्शन” इति एकं राष्ट्रम् एका सदस्यता इति योजनायाः शुभारम्भो विहितः । अस्याः योजनायाः उ‌द्देश्यं शोधार्थिभ्यः सिंगल सब्सक्रिप्शन प्लेटफार्म इत्येतस्य एकल-सदस्यता ग्रहणस्य अन्तर्गतं शोधपत्राणि पत्रिकाः शैक्षणिक-सामग्र्यः च समेत्य व्यापकस्य डिजिटल इति आन्तर्जालिक-निहितानां ज्ञानस्य संसाधनानां निर्बाधोपलब्धता प्रदास्यते। अस्याः योजनायाः विविध स्थलेषु सदस्यता ग्रहणस्य आवश्यकता न भविष्यति। अथ च ज्ञानं सर्वेभ्यः सुलभं भविष्यति। विश्ववि‌द्यालयानां भारतीय-प्रौ‌द्योगिकी- संस्थानानां प्राशासनिक साहाय्य-प्राप्तवताम् उच्च-शिक्षा-संस्थानानाम् च अशीति-लक्षाधिकैक-कोटि- विद्यार्थिनः अनया योजनया जगतः शीर्ष-शोधपत्रिकासु प्रकाशितानि शोध- पत्राणि द्रष्टुं सौविध्यं प्राप्स्यन्ति।
अवधेयं यत् केन्द्रीय-मन्त्रिमण्डलेन गतवर्षे नवम्बर-मासस्य पञ्चविंशे दिने वन नेशन, वन सब्सक्रिप्शन इति एकं राष्ट्रम् एका सदस्यता इति योजना स्वीकृतासीत्। अस्याः योजनायाः प्रथमे चरणे विविध-विषय-सम्बद्धानि चतुश्शतोत्तर-त्रयोदश-सहस्राणि अन्ताराष्ट्रिय-पत्राणि च सम्मिलितानि सन्ति ।