रामनगरम्। पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय-रामनगरम् इत्यस्य आन्तरिकगुणवत्ता-आश्वासन- सुनिश्चयन-प्रकोष्ठस्य तत्त्वावधानेन एका एक-दिवसीया कार्यशाला समायोजिता । यत्र प्राध्यापकेभ्यः आनलाईनसमर्थ-पोर्टलमाध्यमेन विविध- सूचनानाम् (अपडेट) अद्यतनीकरणम्,आन्तरिक-गुणवत्ता-उन्नयन-संवर्धनयोः सम्बन्धितानां परामर्शाणां समाधानार्थमियमायोज्यते।
महाविद्यालयीयः प्राचार्यः प्रोफेसर एम. सी. पाण्डे महोदयः स्व-अध्यक्षीयोद्बोधने समस्तेभ्यः प्राध्यापकेभ्यो निर्दिशन् उक्तवान् यत् समस्ताः प्राध्यापकाः आनलाइन समर्थपोर्टल इत्यत्र विभिन्न- गतिविधिसम्बन्धितानि कार्याणि स्व-स्व प्रोफाइल अपडेट (नवीनीकरणं) निश्चितरूपेण कुर्वन्तु। येन उत्कृष्टरूपेण सक्रियरूपेण च कार्यकर्तृणां शिक्षकाणां प्रोत्साहनं कर्तुं शक्यते ।
एतस्मात् पूर्वं समर्थपोर्टल इत्यस्य समन्वयिका डॉ. अलका शैक्षणिका दि गतिविधीन् समर्थपोर्टल इत्यत्र आनलाइनरूपेण प्राध्यापकैः कथं पूरणीयम् इत्यादिसन्दर्भे प्राध्यापकानां समक्षे पोर्टल उद्घाट्य प्रस्तौति।
अनया शोधः,शैक्षणिकः, शिक्षण- अनुभवः, प्रशासनिक-अनुभवः, बोर्ड आँफ स्टडीज (अध्ययनमण्डलम्), कयाचित् संस्थया सह सहयोगेन कार्यकरणम् , सदस्यता, पुरस्कारः,सम्माननम् , पुस्तकालय- कार्यम्,शोधनिर्देशनम्, ई-लर्निंग, ई-कण्टैण्ट,शोधप्रकाशनम् , समय- सारणी,अवकाशः इत्यादि-परिवर्तन-नवीनीकरणम् इत्यनेन सम्बन्धिताः अनेकविधाः महत्त्वपूर्णाः सूचनाः विस्तरेण प्रदत्ताः ।
अग्रे अलका द्वारा परिचर्चात्मक- सत्रे प्रश्नोत्तरमाध्यमेन विविधाः जिज्ञासाः समाधीयन्ते।
मञ्चसञ्चालकेन डॉ. मूलचन्द्र शुक्ल इत्यनेन कार्यशालाया अन्ते प्राचार्यः सर्वेपि आगन्तुकाः प्राध्यापकाश्च धन्यवादैः सभाज्यन्ते।











