वार्ताप्रेषकः- डॉ. मूलचन्द्रशुक्लः
रामनगरम्। रामनगरस्थ-खत्रीसभा- भवने संस्कृतभारती-उत्तराखण्डस्य द्विदिवसीयं प्रान्तसम्मेलनं प्रारब्धम् । कार्यक्रमस्य सञ्चालनं डॉ. वेदव्रत महोदयेन कृतम्। अस्मिन्नवसरे संस्कृतभारती-प्रान्तमन्त्री गिरीशः तिवारी, क्षेत्रीयसङ्गठनमन्त्री देवेन्द्रः पण्ड्या, पूर्वप्रान्ताध्यक्षा जानकी त्रिपाठी, रामनगरस्थः माननीयः विधायकः दीवान सिंह बिष्टः च इत्यादयः अनेके गणमान्याः जनाः उपस्थिता आसन्।
सम्मेलने संस्कृतस्य प्रचार-प्रसाराय, संरक्षणाय अस्य जीवने धारणाय,जनजीवनजागरणाय च विविधचर्चा-परिचर्चाः विहिताः।
प्रान्ताध्यक्षः,उत्तराखण्डसंस्कृत- विश्वविद्यालयस्य कुलपतिः प्रोफेसर दिनेशचन्द्र शास्त्री वर्येण उक्तं यत् संस्कृतं न केवलमेका भाषा , अपितु मानवजीवनस्य संस्कृति-सभ्यता इत्यनयोराधारशिला वरीवर्ति।संस्कृतमस्माकं संस्कृतिः,परम्परा, ज्ञानबोधः इत्येषाम् आधारभूतं विद्यते। अस्य सम्मेलनस्योद्देश्यं संस्कृतस्य शास्त्रीयभाषारूपेण संरक्षणपूर्वकं प्रत्येकं जनाः संस्कृतेन व्यवहारं कुर्युरिति।
प्रान्तमन्त्रिणा प्रोक्तं यत् संस्कृतं शिक्षा-संवाद-जीवनशैली-इत्येषु अवदानं विधाय भविष्यत्कालिकजनान् संस्कृतिं प्रति अग्रेसारणमपि कारयति। कार्यक्रमस्य मुख्यातिथिः माननीयः विधायक आसीत्। तेन स्वसम्बोधने उच्यते यत् उत्तराखण्डस्य भूमिः ऋषीणां मनीषिणां च तपःस्थली पूर्वकालात् अस्ति, अतः संस्कृतस्य पुनरुत्थानाय एतादृशानि सम्मेलनानि महत्त्वपूर्णां भूमिकां निर्वहन्ति। अस्यां दिशि संस्कृतभारत्याः प्रयासाः अत्यन्तं प्रशंसनीयाः वर्तन्ते। अग्रे मुख्यातिथिना उक्तं यत् अहं विश्वसिमि यत् सम्मेलनमिदं स्व-उद्देश्यं प्रति अग्रेसरिष्यति।”
प्रान्तसङ्गठनमन्त्री,गौरवशास्त्री वर्यः देवेन्द्र हर्बोला महोदयः इत्यादिविद्वद्भिः स्वविचाराः प्रकटीकृताः।
प्रान्तमन्त्री, प्रान्तसंगठनमन्त्री उभाभ्यां पृथक्पृथक्सत्रेषु कार्यकार्तृभिः सह परिचर्चायां संस्कृतस्य प्रचारप्रसाराय संरक्षणाय च कार्यकर्तारः सक्रियरूपेण दायित्वनिर्वहणाय प्रेरिताः।
कार्यक्रमे क्षेत्रमन्त्री डॉ. हरीशगुरुरानी, प्रान्तशिक्षणप्रमुखः डॉ.राघव झाः, आचार्यः कीर्तिवल्लभ मेन्दोलिया,डॉ रामभूषण बिजल्वाणः, डॉ. मूलचन्द्रशुक्लः, डॉ चन्द्रप्रकाश उप्रेती, डॉ जगदीशचन्द्र पाण्डे,डॉ सत्यप्रकाश मिश्रः, डॉ. अरविन्दनारायणमिश्रः,डॉ डीएन जोश,इत्यादयः गणमान्याः जनाः उपस्थिता आसन्।











