राष्ट्रपतिः द्रौपदीमुर्मुः नवदिल्ल्याम् राष्ट्रपतिभवने चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य राष्ट्रिय खेल पुरस्कारान् प्रदत्तवती। विश्व-चतुरङ्ग-विजेता डी. गुकेशः, पेरिस-ओलिम्पिक्-क्रीडायां पदकद्वयविजेत्री मनुभाकरः, पुरुष हाकी-दलनायकः हरमनप्रीतसिंहः पेरिस-पैरालम्पिक्-क्रीडायां स्वर्णपदकविजेता प्रवीणकुमारः च प्रतिष्ठितेन मेजर्-ध्यान-चन्द-खेल-रत्न-पुरस्कारेण अलङ्कृताः अभवन् अवधेयम् वर्तते यत् क्रीडाक्षेत्रे चतुषु वर्षेषु क्रीडकस्य अद्भुतस्य उत्कृष्टस्य च प्रदर्शनस्य कृते अयं पुरस्कारः प्रदीयते। पैरा-शूटिङ्ग-प्रशिक्षकः सुभाष राणा, लक्ष्यभेदकक्रीडा-प्रशिक्षकः दीपाली देशपाण्डेः, हाकी-प्रशिक्षकः सन्दीप- साङ्ग्वानः बैडमिण्टन्-प्रशिक्षकः एस्. मुरलीधरन इत्येषः पादकन्दुक प्रशिक्षकः अरमान्दो अग्नेलो कोलाको च प्रतिष्ठितेन द्रोणाचार्य पुरस्कारेण सम्मानिताः। अपरत्र अर्जुनपुरस्कारः द्वात्रिंशत् क्रीडकेभ्यः प्रदत्त। अवधेयम् वर्तते यत् अर्जुनपुरस्कारप्राप्तक्रीडकेषु क्रीडिका ज्योति- याराजी तथा च अन्नुरानी, मुष्टामुष्टि पदक विजेत्र्यौ नीतु स्वीटी इत्येषा च चतुरङ्ग-क्रीडकः वाण्टिका अग्रवालः हाकी- क्रीडकाः सलीमा टेटे, अभिषेकः, सञ्जयः, जर्मानप्रीत् सिङहः सुखजीत सिंहः च सन्ति। चण्डीगढ़-विश्वविद्यालयः खेलो-इण्डिया- विश्वविद्यालय-क्रीडासु समग्रतया सर्वोच्चं प्रर्शनं कुर्वन् विश्वविद्यालयः इति मौलाना अबुल कलाम्-आज़ाद् (माका) इति पुरस्कारम् अवाप्नोत्।











