आन्ध्रप्रदेशस्थ-गुण्टूरूजनपदस्य सिरङ्गिपुरग्रामे ०२.०२.१९६७ तमे वैक्रमाब्दे लब्धजन्मा संस्कृत-तेलुगु-पण्डितः संस्कृतभारती-अनन्तपुरस्य जनपदकार्यदर्शी डॉ. के. काशीविश्वेश्वरशर्मवर्यः
५१२६ तमे युगाब्दे पौषशुक्ल- वैकुण्ठ-द्वादश्यां शुभपुण्यतिथौ ११ जनवरी २०२५ तमे दिनाङ्के शनिवासरे अकस्मात् हृदयाघातेन दिवङ्गतोSभवत्। डॉ. के. काशीविश्वेश्वरशर्मवर्यः
के. एस. एन. महिला- डिग्री- प्रभुत्व-कलाशाला-अनन्तपुरम्, श्रीवाणीडिग्रीकलाशाला,अनन्तपुरम् , साईविज्ञानजूनियरकॉलेज,इंग्लिश-मीडियम-हाईस्कूल-अनन्तपुरम् इत्येतासु तिसृसु कलाशालासु संस्कृतप्रवक्तृरूपेण संस्कृतम् अध्यापयति स्म। सहैव केन्द्रीयसंस्कृतविश्वविद्यालयस्य संस्कृताध्ययनकेन्द्रस्य केन्द्राधिकारित्वेनापि दायित्वं न्यर्वहत् । डॉ. के. काशीविश्वेश्वरशर्मवर्यः संस्कृते तेलुगुभाषायां च स्नातकोत्तरपदवीं (MA) विशिष्टाचार्यम् (M.Phil) विद्यावारिधिः (PhD) इति उपाधिं च सम्पादितवान् आसीत्।
परमात्मा डॉ. के. काशीविश्वेश्वरशर्मणे सद्गतिं प्रयच्छेदिति वयं भगवन्तं श्रीवेङ्कटेश्वरं प्रार्थयामहे । डॉ. के. काशीविश्वेश्वरशर्ममहोदयस्य असमयपरलोकगमनेन संस्कृतजगतः अपूरणीया क्षतिः अभवत्। संस्कृतभारतीपरिवारः केन्द्रीयसंस्कृतविश्वविद्यालयपरिवारश्च अमुस्मै संस्कृतसमाराधकाय गोलोकवासिने डॉ. के. काशीविश्वेश्वरशर्मणे अश्रुपूरितभावभरितां श्रद्धाञ्जलिं समर्पयति।











