इजराइलदेशीयेन प्रधानमन्त्रिणा बेंजामिन नेतन्याहूः अस्य मासस्य सप्तदश दिनाङ्के पुष्टिः कृता यत् इजराइल हमासयोः मध्ये कतर देशे गहनवार्तानन्तरं बन्धकानां विभुक्तये अथ च गाजा क्षेत्रे युद्ध-विरामस्य कार्यान्वयनाय एका सन्धिः प्रख्यापिता। पञ्चदशमासेभ्यः प्रचल्यमानस्य सङघर्षस्य विरामदिशि अयं महत्वपूर्णपदक्षेपो वर्तते। इजराइल देशेन गृहीतानां फिलिस्तीन देशीयनां बन्धकानां विनिमयरूपेण हमाससमूहेन गृहीतानों द्वादश बन्धकानां विमोचनं।
युद्धविरामाय बन्धकानां विमुक्तये च हमासेन सह जातायाः सन्धेः प्रथमे सोपाने इस्राइल देशः पञ्चत्रिंशदधिक- सप्तशतसङ्खकान् फलस्तीनदेशीयान् बन्धकान् विमोचयिष्यति। इजराइल देशस्य न्याय मंत्रालयानुसारि त्रिचरणात्मिकी इयं सन्धिस्य आरम्भः रविवासरे एकोनविन्शति दिनाङ्के निर्धारितसमयात् त्रिहोरायाः विलम्बेन जातः । प्रथमं चरणं द्विचत्वारिंशद्दिवसान् यावत्प्रचलिष्यति । अत्रावधौ इस्राइलस्य त्रयस्त्रिंशत्-बन्धकाः विमुक्ताः भविष्यन्ति ।
गजा क्षेत्रस्य इतिहासे एकस्य घातक-सङ्घर्षस्य समापनदिशि एतत् एकं प्रमुखं सोपानमिति अस्ति । मध्यस्थः कतार्- देशः युद्धविरामस्य आरम्भस्य पुष्टिं कृत्वा अवदत् यत् प्रथमे मुक्ताः प्रथमेषु बन्धकेषु केचन एव विदेशीय-नागरिकतां धारयन्ति इति। इजरायलदेशस्य प्रधानमन्त्रिणा सामाजिकान्तर्जालीय सन्देशे उल्लिखितं यत् तेषां बन्धकानां सूची प्राप्ता अस्ति ये बन्धकाः प्रथम दिवसे मुक्ताः भवितुम् अर्हन्ति। सः अवदत्, सुरक्षाप्रतिष्ठानम् अधुना विवरणं परीक्षते ।
भारतेन गजायां बन्धकानाम् मुक्तेः युद्धविरामस्य च घोषणायाः स्वागतं कृतम्। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत्, एतेन निर्णयेन गजावासिनां कृते मानवीयसहायतायाः सुरक्षायाः निरन्तरतया आपूर्तिः भविष्यति। गजायां युद्धविरामस्य बन्धकविमोचनस्य च विषये सहमतिः इजरायल्-हमास-देशयोः मध्ये रविवासरे एकोनविन्शति दिनाङ्के आरब्धम्, एषा चर्चा द्वि- चत्वारिशत् दिवस यावत् प्रचलिष्यति।











