भारतीयान्तरिक्ष-अनुसन्धान-संगठनेन- स्पेड-एक्स अभियानान्तर्गतं चेजर-टारगेट-उपग्रहयोः डॉकिंग इति साफल्यपूर्वक संपूर्य ऐतिह्यम् विरचितम् । अमेरिका-रूस-चीन- देशानन्तरं स्वदेशीरूपेण-विकसितस्य डॉकिंग-प्रविधेः उपयोगं विधाय भारतं चतुर्थदेशत्वेन स्वनामाङ्कनं कारितवान्। अन्तरिक्षक्षेत्रेषु चालक-दलाभियानेषु च अप प्रविधिः महत्वपूर्णः वर्तते। इसरो अध्यक्षेण डॉ. वी. नारायणन इत्यमुना अवसरेऽस्मिन् कार्यकर्तृभ्यः शुभकामनाः प्रकल्पिताः । राष्ट्रपति पदासीना द्रौपदी मुर्मुः अपि अवसरेऽस्मिन् देशस्य संपूर्ण-वचानिक-वर्गेभ्यः अभियन्तृ-समुदायेभ्यश्व शुभकामनां प्रदत्तवती।
एकस्मिन् समाजिकान्तर्जालिक सन्देशे सा प्रोक्तवती यत् इयमुपलब्धिः चन्द्रयानचतुर्थे अन्तरिक्षस्थानकेषु गगनयानादिषु च अभियानेषु मार्ग प्रशस्तीकरिष्यति। अस्याः उपलब्धेः प्रशंसां कुर्वन् प्रधानमंत्री नरेन्द्र मोदी सामाजिकान्तर्जालिक सन्देशे प्रोक्तवान् यत् देशस्य अन्तरिक्ष-सम्बद्ध अभियानेभ्यः अयं महत्वपूर्ण पदक्षेपः वर्तते। केन्द्रिय-विज्ञान एवं प्रौद्योगिक-राज्यमन्त्रिणा जितेन्द्र-सिहेन सबलं प्रोदीरितं यत् इयं पूर्णतया स्वदेशी- भारतीय डॉकिंग प्रणालिः वर्तते ।











