विगत विंशति दिनाङ्के डोनाल्डट्रम्प-इत्यसौ संयुक्तराज्यामेरिकायाः सप्तचत्वारिशत्तमाय राष्ट्रपतिपदाय शपथवचनं स्वीकृतवान्। असौ स्वीय- द्वितीयकार्यकालाय शपथग्रहणम् अकरोत्। राष्ट्रपति-पदाय शपथवचनम् मुख्यन्यायाधीशः जॉनरॉबर्ट्स इत्येषः रात्रौ वाशिंग्टन-डी.सी.नगरे कैपिटल-रोटुण्डाइत्यत्र ट्रम्पइत्यस्मै अददात्। जेडी. वेंस. इत्येषः उपराष्ट्रपतित्वेन शपथग्रहणं स्वीकृतवान्। स्वकीये औद्धाटनिके सम्भाषणे राष्ट्रपतिः ट्रम्पइत्ययं मूल्यानां न्यूनीकरणे राष्ट्रियोर्जापात्कालस्य घोषाणां कृतवान् यद्धि तस्य प्रचाराभियानस्य प्रमुखो- द्देश्यमासीत् इति। सः सबलतया अवोचत् यत् अत्यधिकव्ययेन ऊर्जायाः वर्धमान – मूल्येन च मुद्रास्फीति- सङ्कटः जातः। नूतनः राष्ट्रपतिः स्वस्य मन्त्रिमण्डलस्य विशालशक्तेः उपयोगेन वस्तूनां मूल्यानि न्यूनीकर्तुं निर्देशं दातुं प्रतिज्ञां कृतवान्। असौ अग्रे अघोषयत् तस्य नेतृत्वे अधुना अमरिका-देशस्य स्वर्णयुगस्य आरम्भः भवति इति। वाशिङ्गटन-नगरे तीव्रशीतकालस्य पूर्वानुमानस्य कारणेन शपथग्रहणसमारोहः गृहादेव अभवत् । अस्मिन् कार्यक्रमे विदेशमन्त्री डॉ. एस. जयशङ्करः भारतस्य प्रतिनिधित्वं कृतवान् । अस्मिन् समारोहे अर्जेन्टिनादशस्य राष्ट्रपतिः जेबियर मिलेई, इटलीदेशस्य प्रधानमन्त्री जियोर्जिया म मेलोनि चेत्यादयः नैकं नेतारः उपस्थिताः आसन् । प्रधानमन्त्री नरेन्द्रमोदी डोनाल्डट्रम्प इत्यस्मै शुभकामनाः प्रदत्तवान्। एकस्मिन् सामाजिक-सन्देशपटले श्रीमोदिना लिखितं यत् असौ पुनरेकवारं मिलित्वा कार्य सम्पादयितुं उभयोः देशायोः लाभाय विश्वस्य उत्तमभविष्यस्य निर्माणाय च उत्सुकः अस्तीति ।
समारोहात् पूर्वम् अष्टसप्ततिः वर्षीयः ट्रम्प् इत्यसौ एकोन विन्शति दिनाङ्के , रविवासरे रात्रौ वाशिङ्ङ्गटन-नगरे विजयसभां सम्बोधितवान्।











