सांसदस्य जगदम्बिका पालस्य नेतृत्वे वक्फ संशोधन विधेयकस्य संयुक्त संसदीय समितिः अस्य मासस्य प्रथमसप्ताहे संसदि लोकसभायाः अध्यक्षाय ओम् बिर्ला इत्यस्मै स्वस्य प्रतिवेदनं समर्पयत्। समितिः पूर्वे वक्फ (संशोधनम्) विधेयकम्, चतुर्विंशत्यधिकद्विसहस्रम् इति विषये प्रारूप-प्रतिवेदनम् अङ्गीकृतवती। एकत्रिंशत् सदस्यानां समितेः अध्यक्षः जगदम्बिका पालः नवदेहली-नगरे सञ्चार माध्यमैः सह वार्तालापं कुर्वन् एतत् सूचितवान्। सः अवदत् यत् समितिः विधेयकसम्बद्धेषु चतुर्दश-खण्डेषु संशोधनानि स्वीकृतवतीति। सः अवधानं दत्तवान् यत् गतषट्षु मासेषु अस्य विधेयकस्य विषये विस्तृतः विचारः अभवदिति। प्रतिवेदनामिदं गतमासस्य त्रिंशद्दिनाङ्के लोकसभायाः अध्यक्षाय ओमविरला-इत्येतस्मै समर्पितम्। वक्फसंशोधन विधेयके समित्या बुधवासरे नवविंशतिदिनाङ्के प्रारूप-प्रतिवेदनं संशोधितञ्च विधेयकं अङ्गीकृतम् परञ्च विपक्षदलीयाः नेतारः प्रतिवेदने स्वीय-असहमतिं प्रकटितवन्तः । संयुक्तसंसदीयसमित्या पूर्वे पञ्चनवत्यधिक-नवदशतमं वर्ष वक्फविधेयकं चतुर्दश-खण्डेषु धारासु अथ च पञ्चविंशति-संशोधनैः सह स्वीकृतिः प्रदत्तासीत्। तत्रैव संसदः अर्थ-सङ्कल्पनासत्रम् अप्रैलमासस्य चतुर्थदिनाङ्क यावत् प्रचलिष्यति।











