वात्सल्यम् (बालकथा)

विद्यापुरीनामके स्थाने एको नृपतिः राज्यं शशास । युद्धक्षेत्रे स्वकीयवीरत्वम् उदात्तत्वञ्च प्रादर्शयत् । तस्य नरपतेः उत्तमराज्यशासनहेतोः सर्वाः प्रजाः तस्मिन् स्निह्यन्ति । प्रजानामुपरि राजा कदाऽपि अधिकतया स्वप्रभुत्वं कठोरत्वञ्च न प्रदर्शयति । राजा सुशासने यथा निपुणस्तथा विद्यार्जने । अतः राज्ञा कदाचित् सुलभकाव्यकविताः विलिख्यन्ते ।
किन्तु राज्ञोऽमात्याः प्रजानामुपरि स्वप्रभुत्वं बहु प्रदर्शयन्ति । प्रजाः तर्जयन्ति । पण्डितानामुपरि रक्षणशीलाः न भवन्ति । राज्ञः सुशासने अनुदिनम् असन्तोषो वर्धते । राज्यशासनेऽपि बाधाऽऽगता । राज्ञः कर्णे अमात्यानां मन्त्रिणाम् उपद्रवविषये अपतत् । अमात्यानां उपद्रवहेतोः नगरात् शान्तिः विलुप्ता जाता । ग्रन्थानां शास्त्राणां लोपो जातः । पण्डितानां माहात्म्यमपि अन्तर्हितम् । राज्यस्याभिबृद्धयर्थं सुशासनैः सार्धं विद्यायाः प्रतिपोषणमपि आवश्यकम् । अतः मन्त्रिणां प्रभुत्वं दूरीकर्तुं तेभ्यः समुचितशिक्षां प्रदातुं राजा अचिन्तयत् । स्वसभागारे स्वकीयानुचरान् पण्डितान् प्रजाश्च आहूय स एकां सभाम् आयोजितवान् ।
राज्ञ एक विशालमुपवनमासीत् । सुन्दरसौधान्यपि आसन् । तस्मिन् उपवने हंसा अपि क्रीडन्ति स्म । राजा वृक्षस्योपरि सुन्दरशुकान् प्रदर्थ्य उवाच – त्रिदिवसाभ्यन्तरे तान् शुकान् आनीय यो महां प्रदास्यति तस्मै पुरस्कारः दीयते । प्रथमे दिनाङ्के अमात्या एकं विशालदण्डं स्वीकृत्य धवलकपोतान् स्वीकर्तुं गतवन्तः । किन्तु दण्डं दृष्ट्वा कपोताः निमेषकेण उड्डीयन्ते । अन्यो हि धवलकपोतान् स्वीकर्तुम् अमात्यो वृक्षस्योपरि आरोहणं कृतवान् । तथैव पुनश्च कपोताः पलायन्ते । अमात्यः स्वप्रभुत्वबलेन धवलकपोतान् वशीकर्तुमसमर्थः । अपरपक्षे पण्डिताः अनुदिनं धवलकपोतान् सुस्वरेणाहूतवन्तः । कपोता अचिरादेव आकर्षताः सञ्जाताः । यतो हि पण्डितानां हस्तयोः तण्डुलकणा अपि आसन् । त्रिदिवसाभ्यन्तरे सर्वे कपोताः पण्डितानां कृते आकर्षिताः मुग्धाः जाताः । तेषां हस्तयोः कपोताः उपविष्टाः । राजा पण्डितानां सविधे कपोतान् विलोक्य नन्दति । अमात्यानां प्रभुत्वं समाप्तम् । अमात्याः ज्ञातवन्तः स्वप्रभुत्वेन कमपि वशीकर्तुं न शक्यते । अतः –
वात्सल्यस्यास्त्रमाश्रित्य हृदयस्य जयो भवेत् ।
स्नेहेन पण्डितानान्तु यथा शुका वशंगताः ।।