वित्तसङ्कल्पना पत्र २०२५ – आयकर-हितम् सर्वाधिकं चर्चा-विषयः अभवत् ।

आयकर-हितम् सर्वाधिकं चर्चा-विषयः अभवत् ।
एमएसएमई क्षेत्रस्य, महिलानां, कृषकाणां, शिक्षाक्षेत्रस्य, निर्यातवर्धनस्य इत्यादीनां योजनानां घोषणा अपि कृता अस्ति।

वित्तमन्त्री निर्मला सीतारामन् १ फ़रवरीये एन०डी०ए० इत्येतस्य प्रशासनस्य प्रथमं पूर्ण-वित्तसङ्कल्पनापत्रम् उपस्थापितवती। लोकसभायां वित्तमन्त्रिणा उद्घोषितं यत् अधुना द्वादश-लक्षरूप्यकाणि आयपर्यन्तं करस्तरः शून्यं भविष्यति। एषा नूतन करग्रहण-व्यवस्थायां नूतन-आयकर-स्तरान् अपि प्रावर्तयत्।
असौ उक्तवती यत् अनया नूतन-संरचनया मध्यमवर्गस्य कृते करः न्यूनः भविष्यति, तेषां पार्श्वे अधिकं धनम् अवशिष्टं भविष्यति। वरिष्ठनागरिकेभ्यः ऋणवृद्धौ कर-व्यवकलनस्य सीमा पञ्चाशत्-सहस्रात् ‌द्विगुणितं कृत्वा एकलक्ष यावत् कृता। वित्तमन्त्रिणा राज्यैः सह सहभागितायां कृषिक्षेत्राय एकः कार्यक्रमः “प्रधानमन्त्री धन-धान्य-कृषि-योजना” इत्येषः उ‌द्घोषितः । असौ उक्तवती यत् वर्तमान-योजनानाम् अभिसरणेन सह अयं कार्यक्रमः शत-जनपदानां न्यूनोत्पादकता सस्य-विविधीकरणं च व्याप्तं करष्यिति। वित्तमन्त्रिणा निर्मला सीतारामन् इत्यनया उ‌द्घोषितं यत् पञ्चलक्ष-महिलानाम्, अनुसूचित जातीनाम् अनुसूचित जनजातीनाञ्च प्रथम-उ‌द्यमशीलेभ्यः एका नूतन-योजना आरप्स्यते। अनया योजनया आगामि-पञ्च-वर्षावधौ विद्वकोटि-रूप्यकाणि यावत् सावधि ऋण प्रदास्यते।
प्रधानमन्त्रिणा नरेन्द्रमादिना उदीरितं यत् आय-व्यय-पत्रकं पञ्चविंशत्युत्तर द्विसहस्रतः ष‌ड्विंशति-सत्रं देशस्य चत्वारिंशद-धिकैक-शतकोटि-भारतीयानां आकांक्षाणां प्रपूर्तेः आश्वासनं प्रदर्शयति। आय-व्यय-पत्रकात् परं संदेश-पुटके तेन प्रोक्तं यत् एषा भारतस्य प्रगतौ महत्त्वपूर्णा विकास यात्रा भविष्यति। मोदी उक्तवान् यत् एतत् आय-व्यय-पत्रकं प्रत्येक भारतीयस्य स्वप्नान् प्रपूरयिष्यति। श्रीमोदी एतदपि उक्तवान् यत् आय-व्यय पत्रकेण देशस्य मध्यवर्तिनः जनाः लाभान्विताः भविष्यन्ति। द्वादशलक्षरूप्यकाणि यावत् आयवन्तः जनाः करात् बहिः सन्ति। अनेन कृषि-क्षेत्रं ग्रामीणार्थव्यवस्था इत्यादयः च सशक्ताः भविष्यन्ति ।
ध्यातव्यमस्ति यत् अर्थसङ्कल्पना-सत्रात् पूर्व प्रशासनेन नवदिल्ल्याम् सर्वदलीयोपवेशनम् समाहूतम्। उपवेशनावधौ प्रशासनम् सदनस्य नेतृभिस्साकं चर्चा करिष्यति अथ च सत्रस्यास्य सुचारुतया सञ्चालनार्थ दलैः साहाय्यं सहयोगं च याचयिष्यति । जनवरीमासस्य एकत्रिश‌दिनाङ्‌के संसदः उभयोः सदनयोः संयुक्तोपवेशनं राष्ट्रपतिः द्रौपदीमुर्मुः संबोधितवती । तस्मिन्नेव दिवसे केन्द्रीयवित्तमन्त्री निर्मला सीतारामन् इत्येषा आर्थिक सर्वेक्षणं उपस्थापितवती।
वित्तसङ्कल्पनापत्रम् उपस्थापना अनन्तरम् , ६ फ़रवरीये प्रधानमन्त्रिणा संसदः द्वयोः सदनयोः संयुक्तोपवेशने राष्ट्रपतेः द्रौपदीमुर्मु-वर्यायाः अभिभाषणे धन्यवाद-प्रस्तावम् अधिकृत्य राज्यसभायाम् उत्तरं प्रयच्छता वक्तव्यं प्रदत्तम्। कांग्रेस्-दलं विरुध्य कथयन् प्रधानमन्त्री प्रोक्तवान् यत् ‘सबका साथ , सबका विकास ” इति प्रतिरूपम् कांग्रेस्-दलाय दुष्कर्म अस्ति यतो हि सम्पूर्ण कान्ग्रेस-दलम् एकस्मै एवं परिवाराय ममर्पितम् अस्ति। सः अग्रे प्रोक्तवान् यत् तस्य प्रशासनं विकासस्य पोषणार्थं कौशलविकासस्य, वित्तीय समावेशनस्य, औद्योगिकीकरणम्य च कृते प्राधान्यम् अददात् ।प्रधानमन्त्री नरेन्द्रमोदी सबलतया प्रोक्तवान् यत् तस्य प्रशासनस्य विकासस्य प्रतिरूपम् ‘राष्ट्र प्रथमम् ‘ इति अस्ति। यत् तुष्टीकरणरहितं भूत्वा संतुष्टाँ केन्द्रितम् वर्तते। असौ प्रोक्तवान् यत् जनाः एतस्य प्रतिरूपस्य परीक्षणं बोधं समर्थनं च कृतवन्तः, अत एव तृतीयवारम् अपि प्रशासनाय जनादेशः तैः प्रदत्तः।