शिवाजी इत्यस्य जन्मदिवसः प्रतिवर्षं १९ फेब्रुवरी दिनाङ्के विशेषतया महाराष्ट्रराज्ये महता धूमधामेन उत्साहेन च आचर्यते ।
स्वाभिमानिनः वीरपुरुषस्य शिवाजीमहाराजस्य जयन्ती महोत्सवं भारतदेशे विशेषतः महाराष्ट्रराज्ये वैभवेन आचरन्ति । शिवाजीमहाराजः धैर्यशाली, साहसी, दैवभक्तः च आसीत् । भारतीयानाम् अभिमानिनां शिवाजीमहाराजः आदर्शवान् अस्ति ।
शिवाजी शिवनेरुदुर्गे क्रिस्तशके १६३० तमे वर्षे अक्षयतृतीयादिने जन्म लब्धवान् । अस्य पिता षाहजी माता च जीजाबायी । षाहजी बिजापूरसुल्तानस्य आस्थाने प्रशासकः आसीत् । वीरमाता जीजाबायी पुत्राय धैर्यं, साहसं, न्यायनिष्ठां सत्यं प्रेम च उपदिष्टवती । रामायणमहाभारतादि कथासु स्थितानां वीराणां कथां कथितवती । एवं बाल्ये एव शिवाजी धीरः साहसिकः अभिमानावान् अभवत् । शिवाजीमहाराजस्य श्रीदादाजी कोण्डदेवः आदर्शगुरुः आसीत् ।
अनन्तरं शिवाजी एकैकशः सिंहगड, जावळीकोङ्कण सूरत औरङ्गाबाद ([महाराष्ट्रराज्यम्|) इत्यादिषु अधिकारं स्थापितवान् । श्रीसमर्थरामदासः शिवाजी महोदयस्य आध्यात्मिकगुरुः आसीत् । क्रिस्तशके १६७४ तमे वर्षे भारतदेशे छत्रपतिः इति ख्यातः मराठासाम्राज्यस्य स्थापनं कृतवान् । भारतीय प्रशासनस्य रीतिं शिवाजी स्वीकृतवान् । शिवाजी परनारीसहोदरः धर्मयोधः हिन्दुसम्राट् इति च नामभिः ख्यातः आसीत् । सर्वधर्मीयान् अपि समभावेन पश्यति स्म ।
शिवाजी स्वप्रशासन काले राज्ये नवरात्रो उत्सवं वैभवेन आचरितवान् । सर्वस्य गुरुः रामदासः एव मार्गदर्शकः आसीत् । हिन्दुधर्मस्य विशाल गुणस्य सर्वत्र प्रसारं कृतवान् । महाराष्ट्रियजनाः स्वराज्यस्थापकं हिन्दूधर्मसंरक्षकम् अभिमानेन स्मरन्ति । सदा “शिवाजी महाराजकी जै” जयघोषः महाराष्ट्रे श्रोतुं साध्यमस्ति । महान् धीरः शूरः साहसी शिवाजी क्रिस्तशके १६८० तमे वर्षे दिवङ्गतः अभवत् । शिवाजीमहाराजस्य स्मरणेनैव जनाः उत्साहिताः भवन्ति । अतः एव शिवाजीजयन्तीं वैभवेन आचरन्ति ।











